2026-03-04 07:06:05 by ambuda-bot

This page has not been fully proofread.


 
शतशः प्रणिपत्य दूरतः समयज्ञः सचिवस्तपोनिधिं ।
अवदद्भगवन्नृपो भवत्परमानुग्रहमिच्छतीति सः ॥
 
तावदेष स तथेति दयालुर्भूपतेरभिसदस्सह शिष्यैः ।
आदिभिक्षुरिव नाकिनिकायादालयं सुरपतेर्निरगच्छत् ॥
तेन सचिवेन पुरस्कृत्यानीयमानं सकुतुकमालोकयतां पौरजानप-
दानां दृढलग्गैरक्षिपातैरंगीकृतभिक्षुभावं सहस्राक्षं कचिदतिप्रमाणैदानवा-
रिलहरीपरिमलपारणपरायणभ्रमरपटलांधकारितहरिदंतरैश्चूलिकालग्नसु-
वर्णांकुशलतैः प्रवर्तिततमःप्रदीपिकालेशैरिव निशीथिनीयामैः कर्णकुहर-
निकटलंबिपांडुकंबुभिर्दरीमुखदरीदृश्यमान केसरि किशोरैरिवांजनशिलो-
च्चयैः प्रलयकालांबुदप्रतिबिंबैरिवमदावलकदंबकैश्च क्वचिदतिजवनैरुद-
प्रतरपूर्वकायैरुच्चैश्रवोविजिगीषयेवदिवमुत्पतद्भिरितस्ततो वालहस्तवि-
क्षेपयाकंकाटिकारयभररभटीमिव (?) धिक्कुर्वाणैर्भीषण द्रुततरहेषितनिध्वा-
नेन महात्मानं गरुत्मंतमिव तर्जयद्भिः अखंडमणिखचितकनकभां
डपरिमंडितैर्मेरुगिरिभिरिवमहोत्सेकैर्वनायुजबाह्री ककांभोजप्रायैर्घोटकैश्च
क्वचिन्मेचकवारवाणनियंत्रितस्कंधभागैर्विनमित मतंगजमदमषि कलुषित
 
सटाच्छटै रणकंठीरवैरप्रपोतप्रतियोधकलिकायमानधवलचामराभासुरकुं-
भैः मौक्तिकैश्च क्वचिदचिरनिर्मुक्तकालभुजगभयानक विकोशकरवा-
लैर्विद्रुमरसारूषितानिसंहृतांकणनिहतरिपुयोधगणविधीयमान मानभिदा
व्यथासहनतया बहुधावतीर्यप्रेत करग्राहमनुनयंतीव सप्तसप्तिमंडलानि
फलकानि धारयद्भिरुद्थितकुंचिकैश्वर्मभिश्च कचिद्विशिखनिरोधौ-
षधिगुलिकोग्रस्थूलभुजादंडैस्संवर्तककुपित रुद्रञ्जुकुटिघोरत्विषि धनूंषि
दधानैः पश्चाद्धटितकला पकलापेन सततमायोधनविहरणाय प्रेर्यमाणै