vyasayogicaritam /255
This page has not been fully proofread.
८५
मिव भगवंतं नरकंठीरवं वरवर्णिनीभुजलता विधूयमानश्वेतचामरिकाभ्यां
तरंगिणीवीचीलालितहंसमालाभ्यां शरत्समयमिव विशेषदर्शनीयसौभा-
ग्यसंपदमाप्र†दलंबमानधवलकंचुकैरुभयतः कपोलतलडोलायमाननील-
पटव्येपगुणानि रक्तशीर्षण्यानि धारयद्भिस्सिदूरितकुंभनिप्यंदमानमद-
जलधारैर्बहुभिरैरावतैरिव दंतिभिरालोकयालोकयेति सोसूच्यमाननिय-
मसेवासमागतमहाप्रधानपुरुषसंघातं राजानमपि सर्वमित्रमुदारगुणमप्य-
दीर्घसूत्रमचलमपि सततसानुकंपं कृष्णसारमपि शार्दूलविक्रमं महोच्छू-
यमपि नितांतगंभीरं कालमेघमिव भुवनधुरंधरं कौस्तुभमिव त्रासदोष-
परिक्षीणं सरस्वतीनयनमिव ब्रह्मदर्शनोत्सवपरं मंदानिलमिव सुस्पर्शन
मपरिमितयशसमसदृशरामणीयकमगणनीय विद्यावैशद्यमप्रमेयलालित्यं
सिंहसंहननं नरसिंहमहीपतिं पुरोधसा सह भुवनबंधुर्नामसचिवादिभिः
प्रश्रयेणानमितपूर्वकायः करतलपिहिताधरो मंदमंदमुपसृत्याधिकंठं स-
विधमेवमब्रवीत् ॥ स्वामिन् देवेन बहुधानिशमिततादृशानुभावस्स-
भगवान् व्यासयोगी पूर्वेद्युस्सायमागत्य हिमगिरितटमिव जाह्नवीपूरः
कमपिकोविदावासं पावयति । अत्र देवः प्रमाणमित्यपससार ॥ राजातु
तदाकर्णनमात्रेण समेधमानकुतूहल: समुत्थितइव मनसा ससंभ्रममव-
लोक्य सभामंडलं आत्मप्रतिबिंबमिव तमेव तत्रभवतो मुनेरानयनाय
समुचित पुरुषैस्सह पुरोधसा च तरसा संप्रेषयामास ॥
1 [4]
अथ चंचलचंचलालतै जलवाहैरिव पर्वताधिपं ।
पुरुषैर्मणिवेत्रपाणिभिः परिवीतस्स मुनींद्रमभ्यगात् ॥