2026-03-04 07:06:05 by ambuda-bot

This page has not been fully proofread.

४४
 
अथ तस्य महासने वसन् गृहिणः पूजनमन्वमन्यत ।
अभिवेदिसमंत संस्कृतं यजमानादिव पावको हविः ॥
 
एवं तेनाभ्यर्चितो हर्षमाणकोटिं नीत्वा कर्म सांध्यं समस्तं ।
ध्यायन्नेवं चेतसा व्यासयोगी सार्धं शिष्यैस्तां त्रियामामनैषीत् ॥
अपरेद्युरुदिते निशीथिनीसमयनिर्दयनिश्शोषितनालीकिनी हर्ष-
दोषाकररोषेणेव घुसृणरसमसृणितच्छायाकांचनकुंभिकापरिरंभसंभ्रमेणेव
 
प्रथमगिरिशिखरविपिनविविधजपादलनिकुरूंबप्रतिबिंबेनेव हरिचंदनद्रव-
संभावितसिद्धमुनिजनार्घांजलिसलिलांगीकरणेनेव पाटलवपुषि भगवति
भानुमालिनि नातिदूरमंबरतलमवलंबमाने निर्वर्त्य निखिलानि प्राभाति-
कान करणीयानि महतीमास्थानमंटपिकामधिवसंतमनतिसमीपवर्तिभिः
कनककेयूरमणिगणप्रतिफलनच्छलेन शरणं भवेति भुजचंडिमानमिव
सांत्वयद्भिः सामंतमहीपतिभिरुपास्यमानं सकलकलाविचक्षणानां कटक-
मकुटहारादिभिर्भूषणजालिकाभिः रत्ननिर्विशेषविभवानां बहुविधां धर्म-
पदवीपरिपाटिं निश्चितवतां विपश्चितां वदनकमलेषु सकैौतुकं दत्तद्दष्टि
शुभपरतंत्रमंत्रपरंपरानिराकृतसुमंत्रादिभि रताभिरूप्यप्रविशिशिक्षयि-
क्या बहिर्गतैरिव निजविवेकसंतानैरनुकूलाचरणरंजितपृकृतिभिरमा-
त्यवर्णैरधिष्ठितनेदिष्ठमणिकुट्टिमं कालसरीसृपकठोराकारभीषणयाकोशपु-
टादीषदुद्भूतया पुनरपि विरचितप्रस्थान मंगलाय विश्वदिग्विजयाय
धूमधोरण्येव प्रतापानलस्य कादंबिन्येव भुवनमंगलांकुरस्य वेणि-
कयेव वीरलक्ष्म्या : रोमरेखयेव सांम्राज्यदेवतायाः कलिंदकुमा-
रिकयेव कीर्तिगंगायाः निर्मलया निशितधारया कर्बुरितासनभागं
शातकुंभस्तंभावसत्कृतगया (?) सौम्यताजुषा वपुषा पुनरुद्भवंविभावयंत