2026-03-04 07:06:05 by ambuda-bot

This page has not been fully proofread.

४३
 
नतिमदप्रक्रमभुवा, पटीयसा प्राकारवलयेन परिचुंव्यमानह (नु) *न्मुखा-
लोकालोकाचलेन वलयिता धरणिरपरेव या समालक्ष्यते ॥
गेहे गेहे यत्र धृष्यंति रात्रौ मुक्ताबद्वेष्वंगणक्ष्मातलेषु ।
प्रालेयांशोबिंबितं चिह्नभूतं प्रायंत्रायं कृष्णसारं हरिण्यः ॥
मध्येदिनं गोपुर शृंगहेमकुंभैरभेदं गतमब्जबंधुं ।
प्रजानगेकेवलमूष्मभावैः पार्श्वस्थिता यत्र च वालखिल्याः ॥
यत्र कायकांतिविशेषाधिवासोस्तवसुखातिशयानुबुभूषयावती-
र्णानामिव विद्याधरीणां मधुरयोः कंठनालकरतलविपंचिकानिनदयोः
श्रोतारः कुशलापि भेदं निर्णेतुं नपारयंते ॥ यत्र तपनीयमयीषु सौध-
धोरणीषु विशंकटमणिविटंककुलायनिलयिनः शुकशाबकाः परिणत
दाडिमलोभेन कुतूहलमंडलितपक्षतयः चटुलचटुलेन लेलिहंतिपद्मरा-
गशकलानि ॥ यत्र च बिरुदपदकटकायितभरतमुनिफणितिमर्म-
निर्णयानां सकाशान्नर्तकानां प्रत्यहमभ्यस्तमात्रस्य विद्याविभागस्य
परीक्षामिव दधानः भगवान्नृत्यति धूर्जटिस्संध्ययोरुभयोः ॥ यत्र-
चाकषाणि हर्म्याणि रिरंसयाधिरोहतामुल्लंघितगणनासरणीनां गणि-
कानां माणिक्यभूषणमहः पुंजैर्दिशि बहुधासमेधमानभावनैर्विभाव-
यपि वासरति ॥ यत्रच वसतामतियत्नसृष्टैक कुबेरस्य भगवतो वेध-
सोपि मनसि विस्मयमुलयतां नरपतीनां समीक्ष्य संपत्तिमनियत्ता-
मधोक्षज (रक्षस्थन्यं), † केवलं कौस्तुभसहायमवबुध्यते ॥
 
तत्र द्विपेंद्ररथघोटघटासमृद्धावीथीर्विलंघ्य विविधा विचलत्पताकाः ।
दूरात्समीक्ष्य सतु कस्यचिदुच्चभक्तेः प्रत्युद्यतो बुधपतेरभजन्नितं ॥
* रि + वक्षस्थल्यं