2026-03-04 07:06:04 by ambuda-bot

This page has not been fully proofread.

४१
 
मार्ग विलंघितवतः क्रमशो महांतं मध्येदिनं वनतरुप्रकोपगृढं ।
अग्रेसरस्य यतिनाममलांबुगर्भमग्रेसरो नयनयोरतिथी बभूव ॥
 
स्नात्वा स तत्र सलिले शिशिरीभवद्भि भानोरगोचरतया परितः कराणां ।
देवार्चनामकृत शिष्यजंनाहृताभिः कल्हारतामरसकैरवमंजरीभिः ॥
 
तावदस्य सरसस्तमपितो दक्षिणाद्विपिनवृक्षमंडलात् ।
रोदसीकबलयक्षिवोद्गात् कोपि ( क्रोड) (निकरो भयानकः ॥
 
तमाकर्ण्य तस्य चेतः किमिदमिति चिंतां यावदाललंबे ।
तावदेव कौचन ब्रह्मदंपती दावपावकालीढबालसहकारस्येव विवर्ण-
भाजो विस्रंसितावयवसंधिबंधस्य बाहूपपीठमाश्लिष्य धार्यमाणस्य
द्वादशवार्षीयस्य कुमारस्य वदनं वीक्ष्यवीक्ष्य करुणं विलपतौ शनै-
शनैस्सविधभुवमासेदतुः
 
अन्यस्य तस्य सरसो महति प्रतीरे विन्यस्य तं तनुभवं विधिना परासुं ।
तौ पती श्रवणयोः कटुभिर्विलापैः कूलंकषं रुरुदत्तुः कुरराविवतौ ॥
 
तौ भगवानपि व्यासयतिः किंतु कृपालुतया [*]हजहास-
मानो निरंतरनिष्यंदमानबाष्पयवनिका (म) व्याहन्यमानविलोचनपद-
मासाद्य तमग्रजन्मानमप्राक्षीत् ॥ अथ गृहमेधिन कुत्रस्थो भवान्
कथंकारमस्मिन्कंटकिते काननप्रांते कोवा हेतुरस्य कुमारस्य परा-
सुतायाः ॥
 
8 कोल
 
इति पृष्टो द्विजातींद्रः तेन तेजोमयेन सः ।
rearer शोकांधो बागदया गिरा ॥
 
* [मुहुः]