2026-03-04 07:06:04 by ambuda-bot

This page has not been fully proofread.

३९
 
प्रत्यासन्नरूपयामूर्त्या ग्राहमुक्तइव गजयूथनाथः पूर्वादप्यधिकम-
 
शोभत ॥
 
[8] भूरिषु दिनेषु यतिप्रवेकस्तेजः प्रणम्य वरदं द्विपशैलचिह्नं ।
देशान्पदर्शति विचित्रवचःप्रभावस्तस्मात्समुल्वनगरी शनकैरयासीत् ॥
तत्र सततविहिताधिवासं सनकमिव महर्षिभिर्ब्रह्मवादिभिरंते-
वासिभिरुपास्यमानं प्रतिविबुधविटपिपाटनक्रीडनकठोरकुठारधाराय-
माणवाग्गुभं हरिदंतरविसर्पियशः काशवनप्रवर्तितशाश्वतशरत्समयावतारं
निक्षेपभाजनमिव मध्वमुनिरहस्यस्य साक्षात्कारमिव धैर्यस्य विरुदपद्य-
मिव सद्गुणग्रामस्यालानमिव गांभीर्यमदावलस्य महात्मानं सकृदाकर्णि-
तनिजागमनप्रसंग पुलकितमानसं लक्ष्मीनारायणयोगिनमासाद्यभक्तया
प्राणंसीत् ॥
 
एनसदृष्ट्वायतिसार्वभौमं तेजोभरें दीपितदिग्विभागं ।
स्वाहांचिराद्गाढतरस्वकांत वियोगबाधाविषयं शशंके ॥
अस्मै ततो व्यासमुनीश्वराय जाज्वल्यमानाय तपःप्रभावैः ।
शिष्योपनी सकुशासनाद्यै र्यथोचितं सत्कृतिमाततान ॥
 
इत्थंकारं प्रकाशितादरप्रधिष्णुस्तस्य (चिर ) *स्तेजोगौरवं संपा-
दयिष्यन्नमोहजुषां विदुषां गवेषणीयमशेषेण तस्मात्त्रयीशिखरतत्वरह-
स्यमसा (ही) त् ॥ सच प्रशस्ततयादेशस्य पवित्रतयामहातीर्थानां
भूयिष्ठतयामहत्संघस्य वत्सलतयाविद्यागुरोः प्रशांततयामनसश्च
समग्रसन्निधानवैभवस्य भगवतो नृसिंहस्य कांक्षमाणः करुणां भूय-
सीं शरत्समयइव प्रसन्नसलिलाशयः समरइवारब्धवीरासनो रथइव
६ यातेषु 'यशत्सी
 
*