2026-03-04 07:06:04 by ambuda-bot

This page has not been fully proofread.

३८
 
सुरकरन लिनानां धोरणी चंद्रभासां कलशजलाधिकन्याकाम पूजाफलश्रीः ।
मरकतमणिसानौ वारणाधीश्वराद्रेः प्रविकसति विधातुः प्राक्तनी पुण्यमुद्रा ॥
 
अपिच
 
सांम्राज्यं पवनाशिनामधितुलाकोटिस्पुटं कल्पयन् ।
कुर्वन्मूर्ध्नि कुमुद्वतपरिषदामानंदघोरं कुरं ॥
 
वामेनादिधनुर्धरस्य मधुरामाज्ञां समाराधयन् ।
भूमौ कोपि रसालमूलरसिकः पुष्णाति मोदं दृशोः ॥
 
तत्र पर्यटतं समीक्ष्य तं वैज्ञानिकं सुलभाय यशसे स्वयमेवा-
ह्वय पालयतां पुंखानुपुंखतदीयवाचो विस्मापितानामपि विपश्चितां
चेतांसि प्रायेण मस्करी किं सुरगुरुरपि वा तादृश इत्यकथयन् ॥
 
प्रापाश्रमादेष तुरीयमाद्यादतीवतद्धि स्वयमप्युदग्रान् ।
गुणानुपेत्य श्रवणाभिधानान्मध्यस्थितानुत्तरमाललंबे ॥
 
मान्यस्य तस्य महतो महतां सकाशे षड्दर्शनान्यपिधराधरसन्निभानि ।
विद्याबुभुक्षितवतो धिषणामहिम्नो प्राणादिमाहुतिदशां प्रथमं प्रजग्मुः ॥
 
इत्थमचिरादेवाधिगतसमस्त विद्याय सततं विवादयिषयास्फुरता
दशनवाससा तर्जनइव शारदावाचारभटमपि तस्मै महायोगिने
जातुचित्तेजोविशेषमसहिष्णुना केनापि ब्रह्मबंधुना धार्तराष्ट्रेणेव
दुरात्मना भीमसेनाय गरलं कबलगोपितं प्रायुङ्क्त ॥ अरुंतुदेन तेन
तस्य तनुश्शरदीवशैवलिनी बाहुलीब शशिमंडली शैशिरीव सहकार -
लता दिनेदिने सुषुमैकशेषं तनिमानमभजत ॥ तावत्सभक्तवत्सलेन
करुणा वशंवदेन भगवता गरुडध्वजेन स्वप्ननिर्दिष्टायास्साक्षादिव धन्वं-
तरी कुलदेवतायाः कस्याश्चिन्महौषधिमूलिकायास्सद्यस्तनेनेव योगेन