vyasayogicaritam /247
This page has not been fully proofread.
३७
तस्मात्तपसाजाज्वल्यमानात् द्रुहिणकेतनपटमिव परमहंस लक्षणोदारं
यथाविधि चतुर्थाश्रमं पर्यग्रहीत् ॥ तेन विधिनाशाणोल्लेखिनेरत्नायेव
सद्यएवऊर्जस्वलाय प्रकटशंखचक्रलांछनाय तस्मैतापसाय महेयीचर्वितैः
- पुनरुत्य शोधितैः नीवाररूपैश्विरेणादधानाय शरीरयात्रामावृत्तिभिर-
गणेयाभिः फलोन्मुखेन महीयसा केनापिमंत्रेण सह कौस्तुभेन
कमलामिव नारायणाय पारावारोमहतीं व्यसाभिधां प्रादात् ॥
इति श्रीसोमनाथकविविरचित तृतीयोल्लासः
अथ तस्य गुरूपकंठभाजो विशदा व्यासयतीश्वरस्य कीर्तिः ।
तरसाभिययौ दिगंतभूमिं कलशांभोनिधिनिर्जिगीषयेव ॥
क्रमेण सनिसर्गगभीरचेतास्तुंगतरशृंगालिंगितपयोधरान्धराधरा-
ननोकहनिवहविकसितकुसुममधुधारासंपातदामितदावदहनानि वनानि
मदकलकलहंससंसदा लोलितनलिनगलितपरिमलपरि (मले) +न सललित
व्यलीकमेदस्विनीस्त्रोतस्विनी श्चातिशयनृत्तकलामत्तकाशिनीगंजीरझंझ-
लितमुखरित सौध शिखराणि नगराणि आश्चर्यतपश्चर्यादीप्रमणिपेटि
कामठिकाश्च विलंघ्य निरंतर निषेव्यमाणानेकदशशतमुख फणिति
मधुरिमाधरीकृतसुधैर्बुधैः प्रतिभट घटा डंबरजंबालर विभि: कविभिः
प्रकटितत्रिदशभुवनप्रत्यादेशं देशमगाहिष्ट ॥
1 मेल