vyasayogicaritam /242
This page has not been fully proofread.
३२
कल्याणी विशेषेणजननीवात्सल्यभाजनं कुमारिका ॥ भद्रेण कश्चि-
कुलधुरंधरस्समेधतेज्यायान् । कुशलीकिमितरः कुमार इति ॥ ततश्च
राजपरिणाह धवलतनुतरोष्णीषांचलादामुच्य साक्षादाहृतचक्रमिव
गुरोः पत्रंप्रादात् । असावपि तत्सविनयमंजलिना गृहीत्वा नयनस्पर्श
पूर्वं शिरसि निधाय स्वयमेव वाचयित्वा मोहेन स्तब्धमनाः लिखित
इवासीत् ॥ क्षणादेव पुनरवलंबित धैर्यलेशो वर्धिष्णुनासह सागरेणेव
मेधाविना सद्यएव संधानिर्वहणजागरूकेण भवितव्यमित्येतावंतं गुरुले -
खाराद्धांतं रहसिगृहिण्यैन्यवेदयत् ॥
दृष्ट्वा सुतं चिरतपः परिणाहलब्धं विद्याभिरूप्यविनया दिगुणैककोशं ।
स्मृत्वा मुनेर्वचनमप्यविलंघनीयं डोलायमानहृदया जननी बभूव ॥
अन्येद्युरुदिते युगप्रमाणं भगवति भास्वत्यलंध्यतया व्यासदेव
शासनस्य झटितिनिर्वहणयितया प्रस्तुतकार्यस्य विनयपर्यायतया तनय-
स्य जाल्मतरतया चात्मनेोजाययासह कृतनिश्चयस्तं पुरोधाय गुरुशिष्यं
विदितवृत्तांतेन साकंकुमारयतिराजेन स मंदमंदं तत्रभवतो महामुने
रभ्याशमगात् ॥ तत्र प्रथमं स शिष्यः प्रणिपत्य गुरवे प्रांजलिर्न्यवे -
यत् ॥ स्वामिन्भगवतः करुणापरिणामेन कुमारेणसह काश्यपवंश्य-
स्समागत्य द्वारमध्यास्तइति ॥ सोब्रवीद्वदतं त्वरितंप्रवेशयेति ॥ अथ
तेन समानीयमानं शरद्विकच काशप्रकाशया ललित निर्विशेषया सुकु-
मारोष्णीषकया द्राघीयस्याबंधुरित मस्तकेन, कुसुमितशेखरेणेव कुंदमही
रुण, विमलविमलया दुकूलसंव्यानशाटिकया दृकपथलेखयेव, गगना
§ त्