vyasayogicaritam /241
This page has not been fully proofread.
३१
भक्त्या विनयेन सपर्यया दक्षिणाभिश्च समावर्जितमानसैर्गुरुभिः कुटुं-
बिनीसहायैः प्रास्थानिकप्रणतिविधानाद्विरहासहिष्णुतया निर्गलंतीभि-
र्बाष्पसलिलधाराभिः स्त्रपितशिखंडकः, कथंकथंचिदासादितानुमतिः
कृछ्रेण मनस्स्वकीयमप्याकृष्य केनापिपश्चादाकृष्यमाणाभ्यामिव चरणा-
भ्यां मातापितृचरणकिसलयसंदर्शनजनितकुतूहलेन शनैरशनैरभजत
निजनिवासं ॥ तत्र प्रथममंगैरष्टभिरालीढवसुधातलेन भूरिणा संप्रणाम
विधिना चिरोत्कंठितमनसा संमोदबाष्पधारालवदनौ दृढतराश्लेषाभि
लाषपुनः प्रसारितभुजौ मातापितरौ प्रकटोच्चारितशर्मणा सप्रश्रयपद
स्पर्शनेन, निकाममहोत्सवगुणाकृष्टा निवसरभससमागतान् बंधुजनांश्च
गाढया परिरंभणक्रियया, त्वरितगतिसंभ्रमादतिप्रणामनिश्वासान् सदय
सत्सुहृदश्च वत्स सविधमेोहीति मधुरिमपुषा लालनालापेन, चिरम-
दृष्टया तरलतरैर्विलोकनैरवलोकयतोमाणवकांश्च यथाक्रमं संभाव्य,
ततस्तैरादरेण पृच्छ्यमाणो निजप्रवासोदतं निरवशेषमकथयत् । ततः
परमपि तत्रैव सकूलंकषेण विद्याविशेषाभिलाषेण बहुश्रुत्या परिणत
रसिकभावभाजां लालाजलायितव्याकरणफणितीनां सकाशाद्विपश्चितां
अपाठीत्सालंकाराणि सनाटकानि काव्यानि ॥ तत्रांतरे श्रुत-
निखिलवृत्तांतेन तत्रभवता गुरुणा यथार्थनाम्ना ब्रह्मण्ययोगिना स्व-
प्रतिबिंब व प्रेषितः कश्चिदग्रणीरंतेवासिनां प्रथमोपायइव भाविताव-
तारस्य, व्यवसायइव कार्यसिद्धेः, प्रभावइव घटनाया, यशोराशिरिव
लालित्यस्य, शाबकइव वैधग्धस्य, महापुरुषो, दशरथमिव गाधेयो,
बल्लणसुमतिमाससाद । सरभसविहित सपर्याविधये तादृशमस्मै-
गुरुवचनमवोचत् ॥ अपिभवान्कुटुंबिन्यासह मंगलेन वर्धते ॥ ननु