vyasayogicaritam /240
This page has not been fully proofread.
३०
उपशाखीकृतमानसेन नवोद्गमाया धिषणालतायाः ।
विचित्रितस्तेन करेणरेफोविद्यागमद्वारधियं व्यधत्त ॥
बालेन तेन नवहलकपत्रभासा व्याकुंचितांगुलिकया विहितोयकारः ।
चक्रेवदान्यमणिरेष इति प्रबुध्या क्षोणीप्रसारितकरोदरयुग्मर्शकां ॥
विनिर्मितस्तेन विशेषरागात्सरोजुषः पुष्करभूपुरंध्याः ।
अलाबुकूटत्रयहारिशोभां वीणेतिशंकां विदधे णकारः ॥
प्रच्युतानि वदनात्पटुलालाचार्ष्टषंत्युरसितस्यविरेजुः ।
बिंबितानि पुनरछतनुत्वादक्षराणि मनसेव धृतानि ॥
एवं कतिपयैर्वासरैर्यथातथं गृहीताशेषलिपिविशेषेण, नगरमिव
तोरणेन, यशइव वितरणेन, पुण्यमिव सत्कर्मणा, प्रमोदमिव महोत्सवेन,
सौधमिव सोपानेन, विजयमिव वीर्येण, समयोचितमखिलमपि वर्णसमु-
दायमलंचकार ॥ सप्तमेवयसि गुरुणाविधिवदुपनीतः तपसादुश्चरेण
लब्धमिव निरपायनिलयः ब्रह्मवर्चसस्सनिर्गत्य निकेतनान्नियमद्वितीय
एव शुकइव नीडानिगुरुकुलान्यध्यवात्सीत् ॥ प्रथमं कुलगृहमिति
स्वातंत्र्येण रुचिरपदक्रमैः प्रविश्य तस्मिन् सुखविलासजुषि ततामहे-
यापातिभिरिव दायप्राप्त्यै कलहायमानैरितरेतरैरुपनिषत्कुटुंबिनीभि-
स्सममचिरादयमाक्रम्यत ॥ केवलं सविधिरतिचिरमनूचानानसेवत
गुरून् ॥ नाभ्यासापेक्षया लोकाचार इति व्यधायितेन मुहुरधीता-
वृत्तिः । नप्रमादभिया । पुरातनत्वगौरवादवततारशिक्षादिष्वस्य
शेमुषी । नलक्षणाभिक्षतया । मधुरतरस्वरोच्चारणशुश्रूषया जनास्तत्र
तमप्राक्षुः । नपरीक्षितया । एवमुषित्वा हायनानि चत्वारि गुरुकुलेषु
समेघमाननिरतिशयमेधाप्राशस्त्यकचलित दिगंतरालः स यतिराजो-