vyasayogicaritam /233
This page has not been fully proofread.
२३
प्रसादकेनेव वंशस्य सव्यवायकेनेवानंदबीजस्य धन्येतरदुरापेन महता
तत्रभवतः समागमनेन माननीयेन ॥ तथापिदुर्लभतया महत्सन्नि -
धानस्य, निरंकुशतया संमोदस्य, चपलतया रसनायाः, समुचिततया
.
समयस्य कृपालुतया तत्र भवतः प्रियतमतया प्रश्नाभिधेयस्य तरलत-
याचात्मनः, किंचिद्भवते विज्ञापयामि ॥
श्रीकाश्यपान्वयमणिर्मम तातपादः ।
श्रीरामदेव इति दीप्तयशः प्रभावः ॥
कस्यापि मस्करिपतेः करुणाविलासा ।
त्यासोष्ट षट्पटुधियः प्रथितान्कुमारान् ॥
तादृशेषु समनोविकास निपुणेषु प्रथमानयशस्सुरभितेषु कनीया-
नृतुषु शिशिर इवाहमतिचिरमपुत्रतया वात्ययेव तृणभ्रमिः भ्राम्यमाणः
प्रियतमयातया कंदलितोत्साहः पुनरपि श्रोत्रियसुतां कांचिदक्कम्मा
भिधांपर्यग्रहीषं ॥ तथाप्येतावंतं कालमनुन्मेषितकुलांकुरस्य वांछितो -
दयस्तत्रभवतः कारुण्यकणिकायत्ततमः ॥
इत्युक्तो यतिसंसदामधिपतिः पश्यन्प्रतीच्यादृशा ।
दंपत्योर्विहितावतार मनयो स्तत्तादृशं पौरुषं ॥
वाचा गाढतरार्थया परममित्यन्वग्रहीत्सादरं ।
भक्तप्रार्थन पूरणेष्वभिरतिं संतोहिसंतन्वते ॥ -
शिष्यैस्समं द्रुततरैरथदेवपेटी कुंडीबृसीवसनदंडलताग्रहैश्च ।
एवं प्रतोषितहृदा गृहमेधिनापि देवालयप्रति गृहान्निरगात्सयोगी ॥
योगिनस्तस्यकरुणा कामिनीवीक्षणात्तदा ।
सकाण्वतिलकोधत्त भूरीन्पुलककुड्मलान् ॥