2026-03-04 07:06:00 by ambuda-bot

This page has not been fully proofread.

२.२
 
वैष्णवाचाररत्नानां, खलीनमिव दुर्ललितेंद्रियघोटकानां, नीडमिव
नियमशकुंतानां, चंक्रमणरंगमिव षड्दर्शनानां, विजयस्तंभमिव तत्व -
ज्ञानस्य, ललितमिलिताकृतितत्तादृशवैभवं योगिनमेनमवलोक्य विस्मय
कबलि हृदयो भक्तानुकंपिना व्यासदेवेन स्वप्नसमयानुगृहीतस्य सही :-
यसोब्रह्मण्यशब्दस्यायमेवार्थ इति चेतसा निश्चिकाय ।
 
ततोसौ सरभसमुपसृत्य
 
साकंपाहूं सरसिजशा संप्रणामे तदीयां ।
गौ कृत्वा निटिल टिकागोपिकाचंदनेन ॥
 
पाणेः कुंडीं प्रचुरविनयः पावनीमादधानो ।
भक्त्यास्वीयं मुनिवरममुं प्रापयामास गेहं ॥
 
स तत्र हृषितहृषितमनाः तनुतरतरुणकर्बुरलोमसंदानितेन
पारिजातकुसुमकेसरसुकुमारेण समवायेन पंचवर्णासारसांग कुरंगीसह
चरचर्मशेखरितेन परिणाहिना चित्ररलकेन संघटितायामंतर्मंटपवित
र्दिकायां, विविधधातुशबलितप्रथमधरणीधराधित्यकायां प्रभातसमयेनेव
बालमाताडमंडलं मंदमात्मना समुपवेश्य तमेनमर्थ्यादिकया प्रशस्य
या परिवस्यया विकचोपचारभूयसा वचसा च शिष्यैस्सह मोदया
मास ॥ कृतभिक्षंच परिगलितश्रांतिभरंचिरेण तदनुमत्या स्वयमपि
निर्वर्तिताभ्यवहृतिरादरादासाद्य पुष्करितांजलिः पुंखानुपुंखसांद्रतरबाष्प
गद्गदकंठः किंचिदाकुंचितपूर्वकायः प्रश्रयेण यतिपरिवृढमाबभाषे ॥
स्वामिन्नहमिदानीं कृतार्थीकृतोस्मि संदेशहरेणेव भाविभद्रस्य विवर्तने
नैव प्राक्तनसुकृतस्य कुंभलिकेनेव शोकस्य कुठारकेणेव कल्मषपादपस्य