vyasayogicaritam /229
This page has not been fully proofread.
१९
मुकुलैर्बकुलैः तांबूलिकापरिरंभसंपादितकुतुकैः क्रमुकैः धवलितदिगं-
तरालफलभारैर्नारिकेलैः घटितविशंकटतटप्रदेशा क्वचिद्विकचकुव-
लयचयशतभरितमधुरिमधुरीणमधुरससपीतिककरंबित बिब्बोकांडंबर-
होललोलंबकदंबमेचकितापदेशेन निरंतरकालिंदीसन्निधानमिव संद-
र्शयंती । क्वचिदुच्चंडनालपुंडरीकषंडमंडनायमानकेसरसृजदुग्धीसमु-
द्धतजालपादमंडलपांडिमव्याजेनत्रिपथगा समागममिवागमयंती । क्वचि -
दुत्फुल्लकह्लारवातपर्यटनसरससारसमिथुनयूधमस्तकशोणिम विस्तारमि-
षेण सरस्वतीसंगमसंभावनामिवोद्भावयंती धात्रीव दक्षिणदेशस्य, जटा-
लतेव मुक्तिकन्यायाः, प्रहारिकेव पातकमलिम्लुचानां, संमोदागमप-
द्धतिरिव सागरस्य, कल्याणपरंपरेव कवेरस्य, पण्यविशिखेव पुण्यसं-
चयानां, अर्गलेव दुर्गतिद्वारस्य, संव्यानशाटीव सर्वंसहायाः, वागु-
रिकेव भवभयमृगस्य, कीर्तिलतिकेव कैवल्यस्य, त्रिभुवनपरिपावनी
सर्वासामपि सरितां अधिदेवताविजयते भागधेयलक्ष्मीरिव मध्यलोकस्य ॥
तदनुसलिलैःपुण्यैस्तस्याः सुधारससोदरैः ।
निभृतमवधीं नीत्वामाध्यंदिनीं नियमक्रियां ॥
सपटुमतिभिः शिष्यैः सार्धंतटे मुनिरुत्तरे ।
बहुल विपुलं बन्नूराख्याग्रहारमियायतं ॥
आकृष्य सह्याद्रितटाज्जवेन कूलंकवेरात्मजया तरंगैः ।
उत्कूलितस्याश्रममंडलस्य पुष्णाति यः पूर्णगुणेन शोभां ॥
यत्राधिवासं रचयन्द्विजौघो निसर्गचित्रैर्नियमैर्मुनीनां ।
चिरंतनानां जगतिप्रतीतां सप्तत्वसंख्यां शिथिली करोति ॥
वीक्ष्यहियायत्रयुवाभिरूप्यं प्राणान्स्वयं पंचशरोमुमोच ।
भस्मीचकारेति तमीक्षणेन प्रवादमात्रं फलितंपुरारेः ॥