2026-03-04 07:05:59 by ambuda-bot

This page has not been fully proofread.

१६
 
मंडलेगगनपथसंचारपरिश्रममपनोदितुमिवावतरतितटमपरांबुधेः । नभो-
मंडलमारुरुक्षोज्योंतिस्सार्वभौमस्य पुरस्सरेणारुणसौविदल्लेन किरण -
कनकवेत्रलतया समुत्सार्यमाण इव दूरीभवति तारानिकरे । हिमकर-
विरहानलधूम धोरणी ष्विवकुमुदवाटिकायामुत्पततीषु मधुकरीषु, पयसि
जशय्याप्रबुध्यमानकमलामणिमेखलाक्वणितेष्विव समुन्मिषत्सु सत्सु
सारसरणितेषु, पुटकिनीवनपर्यटनचटुलजलदेवता चरण मंजरीशिंजिते-
ष्विव समुदंचितेषुकलहंसविरुतेषु, प्रत्युपाध्यायगृहदेहलीमंदमंदमध्ययन-
मुखरतांमुंचमानेषुमाणवकेषु, समारब्धपावनमधुमथनमंगलस्तोत्राडंबरेषु
जरठभागवतेषु, पिपासतामग्निहोत्रघेनुस्तनंधयानांबर्बरारवैर्जर्जरितेषु
यज्वभवनेषु ।
 
संमोदबाष्पसलिलैस्तरलभिवद्भिः
 
'वाराललोचनचलाचलपक्ष्मपङ्गिः ।
 
स्वप्नोपलब्धकुशलाभ्युदया शुभांगी
 
प्रबुद्ध सा प्रथममेव जवेन भर्तुः ॥
 
अनुपदमेवमुक्तनिद्रं, मुकुंद, हरे, मुरशासन, शरणं भवेत्ति संकीर्त्य-
शयनतलादुत्तिष्ठतं प्रियतमंप्रदक्षिणीकृत्य चमत्कृतनमस्त्रि (त्य) यासाज-
गादस बहुमानं । अये भद्रभद्रं । अयंहिसुप्रभात दिवसः । इदानीं तुस्वप्ने
परमकारुणिको, भक्तजनपारिजातः, सभगवान्पाराशरः, स्वयमेवागत्य
भद्रेप्रसादितोस्मि युवयोस्तपसादुश्चरेणेतिमधुरसासारमुचावाचावद*य-
मानंदयत् शरीरिण्येव शुद्धदेवतयाकयापिशंखशुक्त्यासुधारसबुडुदमु-
कलाकारजुषा केनापिखं मौक्तिकमणिना कौमुदीघनसारपूरितब्रह्मांडक-
 
*न