This page has been fully proofread once and needs a second look.

नां सर्वाधिकारुणिमोत्कर्ष प्रतीतेरप्रस्तुतप्रशंसायां पर्यवसा-

नम् ॥ ४० ॥
 

 
तौल्यं वदन्तु कवयस्त रुपल्लवानां

मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः ।

तान्येव तत्तदधरोष्ठमिषात्तदानीं

कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥
 
"
 
;
 

 
हे मुकुन्द मुग्धा अनभिज्ञाः कवयः तरुपल्लवानां त्वदी-

यचरणेन तौल्यं वदन्तु नाम । तैः किम् , तथा वदद्भिस्तैः

किं साधितं स्यात् ? न किमपि । तत्र वाक्यार्थरूपो हेतुरु-

च्यते -- तानि तरुपल्लवान्येव तत्तद्धरोष्ठमिषात् ये कवय-

स्तथा वदन्ति तेषामधरोष्ठव्याजेन कम्पं भजन्ति तत्तदुक्तिस-

मये चलनं प्राप्नुवन्ति सन्ति आत्मनैच्यं कथयन्ति अभिव्य-

ञ्
जयन्ति किल । निजस्वरूपाभिज्ञाः स्वपक्षपातिभिर्महता सम-

त्वेन स्तूयमानास्तदनौचित्यमालोच्य भयविनयाभ्यां स्वयं क
-
म्पमाना भवन्तीति लोकसिद्धम् । अत्र किलशब्दो हेत्वर्थ-
-
 

श्चेन्न
काव्यलिङ्गं किंतु प्रसिद्ध्यर्थश्चेदेव । तस्य तौल्यं वद -

न्त्विति लोकप्रसिद्धस्योपमानस्योपमेयत्वकल्पनरूपेण प्रतीपेन

अधरोष्ठमि दीदति कैतवापह्नुत्या च संकरः । 'कैतवाप हुति-
ह्नुति-
र्व्यक्तौ व्याजाद्यैर्निदुह्नुते: पदैः । निर्यान्ति स्मरनाराचा:चाः का-