This page has not been fully proofread.

नां सर्वाधिकारुणिमोत्कर्ष प्रतीतेरप्रस्तुतप्रशंसायां पर्यवसा-
नम् ॥ ४० ॥
 
तौल्यं वदन्तु कवयस्त रुपल्लवानां
मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः ।
तान्येव तत्तदधरोष्ठमिषात्तदानीं
कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥
 
"
 
;
 
हे मुकुन्द मुग्धा अनभिज्ञाः कवयः तरुपल्लवानां त्वदी-
यचरणेन तौल्यं वदन्तु नाम । तैः किम तथा वदद्भिस्तैः
किं साधितं स्यात् ? न किमपि । तत्र वाक्यार्थरूपो हेतुरु-
च्यते - तानि तरुपल्लवान्येव तत्तद्धरोष्ठमिषात् ये कवय-
स्तथा वदन्ति तेषामधरोष्ठव्याजेन कम्पं भजन्ति तत्तदुक्तिस-
मये चलनं प्राप्नुवन्ति सन्ति आत्मनैच्यं कथयन्ति अभिव्य-
जयन्ति किल । निजस्वरूपाभिज्ञाः स्वपक्षपातिभिर्महता सम-
त्वेन स्तूयमानास्तदनौचित्यमालोच्य भयविनयाभ्यां स्वयं क
म्पमाना भवन्तीति लोकसिद्धम् । अत्र किलशब्दो हेत्वर्थ-
-
 
काव्यलिङ्गं किंतु प्रसिद्धयर्थश्चेदेव । तस्य तौल्यं वद -
न्त्विति लोकप्रसिद्धस्योपमानस्योपमेयत्वकल्पनरूपेण प्रतीपेन
अधरोष्ठमि दी कैतवापत्या च संकरः । 'कैतवाप हुति-
र्व्यक्तौ व्याजाद्यैर्निदुते: पदैः । निर्यान्ति स्मरनाराचा: का-