This page has been fully proofread once and needs a second look.

श्री
 
जा
णानामुत्करं समूहं प्रताप्य हुतवहे प्रतप्तं कृत्वा तत्र तस्मिन्कि-

रणोत्करे हुतवहादुद्धृते क्षणेन लुप्तरागे सति तापं भजति :

यावद्रागानुवृत्ति भानोरौष्ण्यमनाभव्यक्तं पश्चादभिव्यक्तं भवति ।

स एव तापोऽनुतापः तमनुदिनं भजति । एकस्मिन्दिने स्वप्र-

यासवैयर्थ्ये दृष्टे कथमनुदिनमित्थमाप्रभातं प्रयासानुभव इत्य-

पेक्षायां तत्समर्थनार्थमिदम - स
म् -- स हि मन्दतातः । हि यस्मा-

त्सः मन्दस्य शनैश्चरस्यैव मन्दबुद्धेः तातः पिता । पितृगुणा:
णाः
खलु पुत्रेषु संक्रामन्ति । यथाक्तं रामायणे –- 'सत्यश्चाद्य प्रवाद्य प्रबा-
-
दोऽयं लौकिकः प्रतिभाति मे । पितृतृृन्समनुजायन्ते नरा मा-

तरमङ्गनाः ॥' इति अत्र रविकिरणानां रात्रिष्वग्नौ प्रवेश:
शः
'अग्निं वा आदित्यः सायं प्रविशति' इत्यादिश्रुतिसिद्धः । तस्य

निजकिरणेषु भगवच्चरणारुणिमप्रेप्सया तत्कृतं तेषामग्नौ प्रता-

पनं परिकल्प्य तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतलो-

शलाकानामिवाग्निमंतापनप्रयुक्तारुणिमानुवृत्तिं परिकल्प्य सूं-
सू-
र्यस्य महतापि प्रतिदिनं क्रियमाणेन यत्नेन पश्चात्संतापहेतुस्ता-

त्कालिकेष्टावाप्तिरेव जायते न सार्वकालिकेष्टावाप्तिरिति प्रति-

पादनादिष्टार्थसमुद्यतस्य यावत्स्वेष्टावाप्यभावरूपो विषमालं-

कार:रः । तस्य च शोभालोभादिति निदर्शनया प्रताप्योद्धृत इ-

त्यतिशयोक्तिभ्यां तापशब्दश्लेषेण च संकरः । एवमप्रस्तुतभा-

नुवृत्तान्तवर्णनेन वर्णनीयत्वेन प्रस्तुतानां भगवदङ्घ्रिकिरणा-