This page has been fully proofread once and needs a second look.

उत्कोचदानमिदमुष्णकरस्य बाल्या-
त्तत्कान्तिरत्नचयचोरणतत्परस्य ॥ ३९

तव अङ्घ्रिद्वयस्य संततमन्तरङ्गं सर्वदैवाप्ततमम । सादृ -
श्यमात्रात्तथाध्यवसाय: । अम्भोजवर्गं श्रिया कान्त्यैव संपदा
योजयतीति यत् । उष्णकरः कर्ता सामर्थ्याल्लभ्यते । इदं
श्रिया योजनं बाल्याद्बालभावात्तत्कान्तिरत्नचयचोरणतत्परस्य
अङ्घ्रिद्वयस्य कान्तय एव रत्नानि तेषां चयः समूहः तच्चो-
रणे तत्परस्य उष्णकरस्य उत्कोचदानमिति मन्ये । राजगृहा-
दिषु चौर्यं चिकीर्षमाणा हि तदीयमाप्तवर्गं धनदानादिना स्व-
वशीकुर्वन्ति । अत्रान्तरङ्गत्वाध्यवसायरूपातिशयोक्त्या श्रीश-
ब्दश्लेषेण कान्तिरत्नेति रूपकेण तच्चोरणकल्पनारूपातिशयो-
क्त्या चोत्थापितः स्वरूपोत्प्रेक्षालंकारः । ’ सा तूत्कोच आ-
मिषः' इति वैजयन्ती ॥ ३९ ॥
 
भानुर्निशासु भवदङ्घ्रिमयूखशोभा-
लोभात्प्रताप्य किरणोत्करमाप्रभातम् ।
तत्रोद्धृते हृतवहात्क्षणलुप्तरागे
तापं भजत्यनुदिनं स हि मन्दतातः ॥

भानुः भवदङ्घ्र्योः मयूखानां या शोभा सा स्वकिरणा-
नामप्यस्त्विति लोभात् निशासु रहस्यत्वेन आप्रभातं स्वकिर-