This page has been fully proofread once and needs a second look.

मुष्णन्प्रभातसमयेषु मुरान्तकारि-

न्नङ्क्षिद्वयश्रियमहस्करतस्करस्ते ।

यत्प्राप्यते न करभङ्गममुष्य बाल-

मित्रत्वमेव मिषति ध्रुवमत्र हेतुतुः ॥ ३८ ॥
 

हे मुरान्तकारिन्, अहस्कर एव तस्करः ते तव अघि-
ङ्घ्रि -
द्वयस्य श्रियं शोभामेव संपदं प्रभातसमयेषु मुष्णन्नपि यत्कर-

भङ्गं
करच्छेदं न प्राप्यते अत्र अमुष्य अहस्करतस्करस्य

बालमित्रत्वं बालसूर्यत्वं तदेव बाल्यमारभ्य सौहार्दं तदेव

द्रूप एव हेतुः कारणं मिषति जागर्ति । वर्तत इति

यावत् । ध्रुवमित्युत्प्रेक्षाव्यञ्जकः शब्दः । प्रतिदिनं

प्रातः कालेषु सर्वेषां प्रबोधसमयेषु मुष्णतो हस्तच्छेद एवो-

चितः । स बाल्यसौहार्दमनुरुध्य न क्रियत इत्युचि-

तमेवैतत् । बालस्य सूर्यस्यास्तमेष्यत इव किरणक्षयो

नास्तीति स्वाभाविकोऽर्थः । अत्र प्रकृतार्थमपेक्ष्य हेतूत्प्रेक्षा

सा चाहस्करतस्कर इति रूपकेण प्रभातसमयेषु सूर्ये भगव-

दङ्घ्रिसमानशोभादर्शन।नात्कवि प्रौढोक्तिमूलतल्लेशमोषणकल्पना-

रूपातिशयोक्त्या श्रीकरमित्रशब्दश्लेषैश्चोत्थापितेति संकरः ॥
 

 
ङ्घ्रिद्वयस्य तव संतनमन्तरङ्ग-

मम्भोजवर्गमिह योजयति श्रिया यत् ।