This page has not been fully proofread.

मुष्णन्प्रभातसमयेषु मुरान्तकारि-
न्नङ्क्षिद्वयश्रियमहस्करतस्करस्ते ।
यत्प्राप्यते न करभङ्गममुष्य बाल-
मित्रत्वमेव मिषति ध्रुवमत्र हेतु ॥ ३८ ॥
 
हे मुरान्तकारिन्, अहस्कर एव तस्करः ते तव अघि-
द्वयस्य श्रियं शोभामेव संपदं प्रभातसमयेषु मुष्णन्नपि यत्कर-
करच्छेदं न प्राप्यते अत्र अमुष्य अहस्करतस्करस्य
बालमित्रत्वं बालसूर्यत्वं तदेव बाल्यमारभ्य सौहार्दं तदेव
नद्रूप एव हेतुः कारणं मिषति जागर्ति । वर्तत इति
यावत् । ध्रुवमित्युत्प्रेक्षाव्यञ्जकः शब्दः । प्रतिदिनं
प्रातः कालेषु सर्वेषां प्रबोधसमयेषु मुष्णतो हस्तच्छेद एवो-
चितः । स बाल्यसौहार्दमनुरुध्य न क्रियत इत्युचि-
तमेवैतत् । बालस्य सूर्यस्यास्तमेष्यत इव किरणक्षयो
नास्तीति स्वाभाविकोऽर्थः । अत्र प्रकृतार्थमपेक्ष्य हेतूत्प्रेक्षा
सा चाहस्करतस्कर इति रूपकेण प्रभातसमयेषु सूर्ये भगव-
दङ्घ्रिसमानशोभादर्शन।त्कवि प्रौढोक्तिमूलतल्लेशमोषणकल्पना-
रूपातिशयोक्त्या श्रीकरमित्रशब्दश्लेषैश्चोत्थापितेति संकरः ॥
 
अवयस्य तव संतनमन्तरङ्ग-
मम्भोजवर्गमिह योजयति श्रिया यत् ।