This page has been fully proofread once and needs a second look.

भक्तप्रवेकभववारिनिधेस्तरण्यो-

स्त्वत्पादयोर्जयति कापि मयूखमाला ॥
 

 
हे नाथ, भक्तप्रवेकाणां भक्तश्रेष्ठानां सात्त्विकचित्तानां

भवः संसार एव वारिनिधिः तस्य तरण्योः तरणसाधननौ-

रूपयो: । तरण्यो: सूर्ययोरित्यपि प्रतीयते । एवंभूतयोस्तव

पदयोः कापि प्रसिद्धसूर्यमयूखविलक्षणा मयूखमाला जयति

सर्वोत्कर्षेण वर्तते । 'जि जये' इति धातुरकर्मक उत्कर्ष-

वाची । तद्वैलक्षण्यं पूर्वार्धेन दर्शितम् । यमिनामन्तस्तमांसि

आन्तराणि तमोगुणविकारदोषजातानि अपसारयन्ती, हृत्प-

ङ्
कजानि तेषां हृदयपुण्डरीकाण्यपि विकासयन्ती उल्लासय-

न्तीति । अत्र बाह्यतमोमात्र निवर्तकत्वाद्वाबाह्यक मलमात्रविकास-
कत्वाञ्

कत्वाच्
च प्रसिद्धसूर्यकिरणजालादाधिक्यं वर्णितमिति व्यतिरे-

कालंकारः । स च तम: शब्दश्लेषोत्थापित इति संकरः ।

योगिनां हृत्पङ्कजविकासो भगवत्प्रसादाधीन इति तच्चरणयो-

राराधितयोर्विकासकत्वमुक्तम् । हृत्पङ्कजायतनस्य चेतसो

निर्वृतिरेवात्र विकासत्वेन विवक्षिता । ' प्रवेकानुत्तमोत्तमाः '

इत्यमरः । ' पुंसि स्यात्सूर्यकिरणे तरणिर्वारिधावपि । स्त्री तु

नावि च नद्यां च पुष्पस्तम्बान्तरे तथा ॥' इति केशवः ॥