This page has not been fully proofread.

भक्तप्रवेकभववारिनिधेस्तरण्यो-
स्त्वत्पादयोर्जयति कापि मयूखमाला ॥
 
हे नाथ, भक्तप्रवेकाणां भक्तश्रेष्ठानां सात्त्विकचित्तानां
भवः संसार एव वारिनिधिः तस्य तरण्योः तरणसाधननौ-
रूपयो: । तरण्यो: सूर्ययोरित्यपि प्रतीयते । एवंभूतयोस्तव
पदयोः कापि प्रसिद्धसूर्यमयूखविलक्षणा मयूखमाला जयति
सर्वोत्कर्षेण वर्तते । 'जि जये' इति धातुरकर्मक उत्कर्ष-
वाची । तद्वैलक्षण्यं पूर्वार्धेन दर्शितम् । यमिनामन्तस्तमांसि
आन्तराणि तमोगुणविकारदोषजातानि अपसारयन्ती, हृत्प-
कजानि तेषां हृदयपुण्डरीकाण्यपि विकासयन्ती उल्लासय-
न्तीति । अत्र बाह्यतमोमात्र निवर्तकत्वाद्वाह्यक मलमात्रविकास-
कत्वाञ्च प्रसिद्धसूर्यकिरणजालादाधिक्यं वर्णितमिति व्यतिरे-
कालंकारः । स च तम: शब्दश्लेषोत्थापित इति संकरः ।
योगिनां हृत्पङ्कजविकासो भगवत्प्रसादाधीन इति तच्चरणयो-
राराधितयोर्विकासकत्वमुक्तम् । हृत्पङ्कजायतनस्य चेतसो
निर्वृतिरेवात्र विकासत्वेन विवक्षिता । ' प्रवेकानुत्तमोत्तमाः '
इत्यमरः । ' पुंसि स्यात्सूर्यकिरणे तरणिर्वारिधावपि । स्त्री तु
नावि च नद्यां च पुष्पस्तम्बान्तरे तथा ॥' इति केशवः ॥