This page has been fully proofread once and needs a second look.

हे अधीश,
 

 
चरणांशुपुञ्जः चरणकिरणानां समूहः ते तव

मूर्तितिं प्रसाधयति अलंकरोति । प्रकर्षेण साधयति तत्सद्भावं

स्थापयतीत्यपि लभ्यते । तां मूर्तिं जैमिनि: देवताविग्रहास -

हिष्णुः कथं निराकरोतु ? कथमपि निराकर्तुं न शक्नोति ।

हि यस्मात् सर्वत्र सर्वेष्वपि अरुणिम्नो योगमुपपादयता सं-

पादयता त्रैलोक्यवर्तिनः सर्वानपि पदार्थान्स्वसंबन्धेन अरु-

णीकुर्वता । उपपादयता समर्थयमानेन इत्यपि लभ्यते । मी-

मांसासूत्रकर्ता जैमिनि: अरुणाधिकरणे भग्नः । अरुणया

पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति वाक्ये श्रुतस्यारु -

णिम्नः सर्वेषु सोमक्रयसाधनद्रव्येषु नास्त्यन्वयः, किं तु सम-

भिव्याहृतैकहायनीमात्र इत्यरुणाधिकरणे जैमिनिनोपपादितम् ।

तदुपपादनस्य सर्वत्रारुणिमयोगमुपपादयता भगवच्चरणांशु -
पु -
ञ्जेन भङ्गो जात इत्येकत्र भग्नस्यान्यत्रापि स्वमतस्थापनसा-

मर्थ्यं नास्तीत्यवसीयत इति भावः । अत्र क्वचित्तेन भग्नस्या-

न्यत्रापि तत्प्रातिभट्यानर्हत्वं भङ्गलिङ्गेन साध्यत इत्यनुमाना-

लंकारः । स च प्रसाधनोपपादनशब्दश्लेषं भङ्गातिशयोक्तिं

चापेक्षत इति संकरः ॥ ३६॥
 

 
अन्तस्तमांसि यमिनामपसारयन्ती

हृत्पङ्कजान्यपि च नाथ विकासयन्ती ।