This page has been fully proofread once and needs a second look.

५८
 
प्रसिद्धास्तेभ्यः सर्वेभ्योऽप्यतिशयेन सुकुमारौ । बौद्धप्रति-

योग्यपेक्षायामप्यातिशायनिकाः'
इति वामनसूवात्रानुसारेण

प्र
तियोग्यपेक्षस्तमप्प्रत्ययः । भू-
योग्यपेक्षायामप्यातिशायनिकाः'
प्रतियोग्य
निर्देशेऽपि गम्यमान
प्रतियोग्यपेक्षस्तमप्प्रत्ययः । भू-
षाभराद्भूषणानां बाहुल्यात् तद्भरासहिष्णुतया च अरुणिमा-

नमुद्वमन्तौ किरन्ताविव स्थितौ ते तव पादौ इत्थमन्यदपि

किंचित्सुकुमारमस्ति किमिति बोद्धुमिव लोकत्रयेऽपि सतः

पदार्थान् करै: किरणैः स्पृशतः । सौकुमार्यं हि हस्तस्पर्शेन ज्ञात-

व्यम् । अतः करैः हस्तैरित्यपि गम्यते । अत्र उद्वमन्तावि-

त्यस्य गौणार्थपरत्वान्न ग्राम्यता । यदाह दण्डी-निष्ठ्यू-

तोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्तु प्रा-
ग्रा-
म्यकक्ष्यां विगाहते ॥' इति । अत्रारुणिम्नः स्वतः प्रसरणे

भूषणभरासहिष्णुत्वप्रयुक्तोद्वमनतादात्म्योत्प्रेक्षैका, बोद्धुमिवेति

फलोत्प्रेक्षान्या । एवं स्वरूपफलोत्प्रेक्षयोः परस्परनिरपेक्षयोः

संसृष्टि: । लोकत्रयगतपदार्थजातस्पर्शस्य फलिनः कविप्रौढो-

क्तिकल्पितत्वात्तदपेक्षया फलोत्प्रेक्षातिशयोक्त्योः संकरः ॥

मूर्तितिं प्रसाधयति ते चरणांशुपुञ्ज-

स्तां जैमिनिः कथमधीश निराकरोतु ।

सर्वत्र योगमुपपादयतारुणिम्न-

स्तेनारुणाधिकरणे हि मुनिः स भग्नः ॥