This page has been fully proofread once and needs a second look.

भगवद्दर्शनं लब्ध्वा अर्चिरादिमार्गेण परमं पदं गच्छतां

सूर्यमण्डलमध्ये संभेदनं कृत्वा तेन द्वारेण गमनम् । सूर्य-

द्वारेण ते विरजाः प्रयान्ति' ' स आदित्यमा गच्छति, स

तस्मै तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व

आक्रमते' इत्यादिश्रुतिप्रसिद्धं च ॥ ३४ ॥
 

 
इत्थमिह पञ्चभिः श्लोकैर्मङ्गलाचरणस्तोत्रारम्भाक्षेपसमा-

धानानि निबद्धानि; काञ्चीपुरी चतुर्भिः, एकेन भगवन्म-

न्दिरप्राकारः, एकेन गिरिशृङ्गाधिरोहणसोपानपात:ङ्क्तिः, एकेन

पुण्यकोटिविमानः, एकेन तत्र प्रत्यङ्मुखतया भगवतः

संनिधानम्, सप्तभिर्भगवतः सर्वावयव संस्थानविशेषरूपं सौ-

न्दर्यम्, पञ्चभिर्लावण्यम्, त्रिभिर्देहकिरणानां श्यामलिमा,

सप्तभिराभराणानि च वर्णितानि । अथैकैकशोऽवयवेषु वर्ण-
मी

नी
येषु अष्टादशभिः श्लोकै: किरणारुणिमरेखानखभूषणस-

हितश्रीपादवर्णनम् -
 
mengam
 

 
पादावुपेन्द्र सुकुमारतमाविमौ ते

भूषाभरादरुणिमानमिवोडमन्तौ ।

इत्थं किमस्ति सुकुमारमितीव बोहुं
द्धुं
लोकत्रयेऽपि च करैः स्पृशत पदार्थात् ॥

हे उपेन्द्र, सुकुमारतमौ ये शिरीषादयः सुकुमारत्वेन