This page has not been fully proofread.

भगवदर्शनं लब्ध्वा अर्चिरादिमार्गेण परमं पदं गच्छतां
सूर्यमण्डलमध्ये संभेदनं कृत्वा तेन द्वारेण गमनम् । सूर्य-
द्वारेण ते विरजाः प्रयान्ति' ' स आदित्यमा गच्छति, स
तस्मै तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व
आक्रमते' इत्यादिश्रुतिप्रसिद्धं च ॥ ३४ ॥
 
इत्थमिह पञ्चभिः श्लोकैर्मङ्गलाचरणस्तोत्रारम्भाक्षेपसमा-
धानानि निबद्धानि; काञ्चीपुरी चतुर्भिः, एकेन भगवन्म-
न्दिरप्राकारः, एकेन गिरिशृङ्गाधिरोहणसोपानपात:, एकेन
पुण्यकोटिविमानः, एकेन तत्र प्रत्यङ्मुखतया भगवतः
संनिधानम्, सप्तभिर्भगवतः सर्वावयव संस्थानविशेषरूपं सौ-
न्दर्यम्, पञ्चभिर्लावण्यम्, त्रिभिर्देहकिरणानां श्यामलिमा,
सप्तभिराभराणानि च वर्णितानि । अथैकैकशोऽवयवेषु वर्ण-
मीयेषु अष्टादशभिः श्लोकै: किरणारुणिमरेखानखभूषणस-
हितश्रीपादवर्णनम् -
 
mengam
 
पादावुपेन्द्र सुकुमारतमाविमौ ते
भूषाभरादरुणिमानमिवोडमन्तौ ।
इत्थं किमस्ति सुकुमारमितीव बोहुं
लोकत्रयेऽपि च करैः स्पृशत पदार्थात् ॥
हे उपेन्द्र, सुकुमारतमौ ये शिरीषादयः सुकुमारत्वेन