This page has been fully proofread once and needs a second look.

५६
 
क्षिपन्तीत्यपि गम्यते । रविमण्डलमपि हि कंचित्कालं प्रभा-

निकरैर्लोचनानि प्रतिहन्ति । तत्प्रतिघातलेशं सोढाढ्वापि यत्नेन

पुनः पुनर्वीक्ष्यमाणं तु दर्शनं प्रयच्छति । यथा राजकीया:

स्वसुहृद्भाधातुकं राजदर्शनार्थमन्तः प्रविविक्षन्तं द्वार्येव गलहस्त-

यन्ति तथा निरुन्धन्ति अप्रवेशेऽपि तस्य फललाभं पश्चात्त-

र्कयन्ति चेन्निरोधं विसृजन्ति, तत्साम्यमिह गम्यते । अत्र

पद्मरागाणां विमण्डलवदतिवैपुल्यमतिभास्वरत्वं च व्यञ्जित-

मित्युपमोत्थापिता वाच्या हेतूत्प्रेक्षा । ततश्चिरमबुद्धेध्वेत्याभ्यां

पश्चादप्रतिघातोत्प्रेक्षा गम्यते । एवमुपमोत्प्रेक्षाद्वयालंकृते

प्रस्तुत पद्मरागवृत्तान्ते वर्ण्यमाने तत्सारूप्यादप्रस्तुतराजकीय-

वृत्तान्तप्रतीते: समासोक्तिश्चेत्येतेषां संकरः । उत्प्रेक्षाभ्यां च

कृतनिवर्तनरूप आक्षेपालंकारो ध्वन्यते । 'समासोक्ति: परि-

स्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चु-

म्बति चन्द्रमाः ॥' इति समासोक्तिलक्षणोदाहरणे । तत्र

रक्तमुखविशेषणसाधारण्यादप्रस्तुतवृत्तान्तप्रतीतिः । इह तु

सारूप्यादिति विशेषः । सारूप्यनिबन्धनापि समासोक्तिरस्तीति

तदुदाहरणपूर्वकं समर्थितं कुवलयानन्दे । 'आक्षेप: स्वयमु-

क्
तस्य प्रतिषेधो विचारणात् । चन्द्र संदर्शयात्मानमथ वास्ति

प्रियामुखम् ॥' इत्याक्षेपालंकारस्य लक्षणोदाहरणे । तंत्र
तत्र
स्वयमुक्तप्रतिषेधस्येवेह स्वयंकृतनिवर्तनस्याप्युदाहरणमुपपन्नम्।