This page has not been fully proofread.

हे देव सुन्दरेति च संबोधनद्वयम । तव आपादमौलि आ-
पादमामौलि च विधृतेषु मणिभूषणेषु मणिमयेषु भूषणेषु प्रत्युप्ताः
स्थूलेन्द्रनीलमणयः रागादुपेत्य समागत्य तत्तदने लग्नानि
यत्र यत्राङ्गे प्रथमं पतितानि तत्र तत्रैव लग्नानि लोकसुदृशां
त्रैलोक्यसुन्दरीणां लोचनानीव विभान्तीति स्वरूपोत्प्रेक्षा ॥
त्वां वीक्ष्य मुक्तिद जनास्तरणि सखायं
भिन्युः किलेति तव भूषणपद्मरागाः ।
शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति
 
तन्मावतोऽपि तव मुक्तिदतामबुवा ॥
 
हे मुक्तिद मोक्षप्रद, तव भूषणपद्मरागाः भूषणेषु
प्रत्युप्ता: शोणमणयः स्वकरैः स्वकीयैः किरणै: जनदृश:
भगवद्दर्शनार्थमागतानां जनानां लोचनानि कर्माणि चिरं
लिपति निरस्यन्ति इति शङ्के उत्प्रे । यथा रविमण्डलं
प्रष्टणां लोचनानि स्वप्रभानिकरैश्चिरं निरस्यति तद्वत् । तत्र
तुरुत्प्रेक्ष्यते- जनास्त्वां वीक्ष्य सखायं सादृश्यात्स्वेषां सुहृदं
तगणं सूर्य भिन्धुः किलेति । अनेन मित्रमण्डलभेदसंभावना
हेतुत्वेनोपन्यस्ता । तन्मात्रतोऽपि त्वदमभूषणप्रभाभिर्नेत्रप्रति-
पातलाभमात्रेणापि तव मुक्तिदतां मुक्तिप्रदत्वमबुद्धा अवि-
चार्येव । चिरमित्युक्त्या अबुद्धेत्युक्त्या च पश्चाद्दुदैव न