This page has been fully proofread once and needs a second look.

आबद्धपङ्किमहितानि तव त्रिधाम-
न्वीघ्राणि हरिशकलानि विभूषणेषु ।
संमोहनानि सरसीरुहलोचनानां
मन्त्राक्षराणि कलये मकरध्वजस्य ॥
हे त्रिधामन् विष्णो । त्रिधामा केशवेऽनले' इति
यादवप्रकाश: । त्रीणि श्वेतद्वीपादीनि धामानि स्थानानि यस्ये-
ति व्युत्पत्तिमाहुः । हरिवंशे तु कैलासयात्रायाम् ’ ब्रह्मा
त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो । संहारे रुद्रना-
मासि त्रिधामा त्वमतः प्रभो ॥' इति प्रकारान्तरेण व्यु-
त्पत्तिर्दर्शिता । तव विभूषणेषु आ समन्ताद्बद्धाभिर्विरचि-
ताभिः पङ्क्तिभिर्महितानि पूजितानि । मनोहराणीति यावत् ।
वीघ्राणि विमलानि ।' वीघ्रं तु विमलाथर्कम्' इत्यमरः ।
हीरशकलानि वज्रखण्डानि सरसीरुहलोचनानां सरोजदृशां
तरुणीनां संमोहनानि वशीकरणार्थानि मकरध्वजस्य मन्म-
थस्य मन्त्राक्षराणि कलये मन्ये इति स्वरूपोत्प्रेक्षा ॥ ३२ ॥
 
आपादमौलि विधृतेषु विभान्ति देव
स्थूलेन्द्रनीलमणयो मणिभूषणेषु ।
रागादुपेत्य तव सुन्दर तत्तदङ्गे
लग्नानि लोकसुदृशामिव लोचनानि ॥