This page has been fully proofread once and needs a second look.

आबद्धपङ्किमहिनातानि तव त्रिधाम-

न्
वीघ्राणि हरिशकलानि विभूषणेषु ।

संमोहनानि सरसीरुहलोचनानां
 

मन्त्राक्षराणि कलये मकरध्वजस्य ॥
 
C
 

हे वित्रिधामन् विष्णो । वित्रिधामा केशवेऽनले' इति

यादवप्रकाश: । त्रीणि श्वेतद्वीपादीनि धामानि स्थानानि यस्ये-

ति व्युत्पत्तिमाहुः । हरिवंशे तु कैलासयात्रायाम् ब्रह्मा

त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो । संहारे रुद्रना-

मासि त्रिधामा त्वमतः प्रभो ॥' इति प्रकारान्तरेण व्यु-

त्पत्तिर्दर्शिता । तव विभूषणेषु आ समन्ताद्द्धाभिर्विरचि-

ताभिः पङ्क्तिभिर्महितानि पूजितानि । मनोहराणीति यावत् ।
बी

वी
घ्राणि विमलानि ।' वीव्घ्रं तु विमलाथर्कम्' इत्यमरः ।

हीरशकलानि वज्रखण्डानि सरसीरुहलोचनानां सरोजदृशां

तरुणीनां संमोहनानि वशीकरणार्थानि मकरध्वजस्य मन्म-

थस्य मन्त्राक्षराणि कलये मन्ये इति स्वरूपोत्प्रेक्षा ॥ ३२ ॥
 

 
आपादमौलि विधृतेषु विभान्ति देव

स्थूलेन्द्रनीलमणयो मणिभूषणेषु ।

रागादुपेत्य तव सुन्दर तत्तदङ्गे
 

लग्नानि लोकसुदृशामिव लोचनानि ॥