This page has been fully proofread once and needs a second look.

जगदण्डानां ब्रह्माण्डानां यानि सहस्राणि । असंख्यानि

ब्रह्माण्डानीति यावत् । 'ब्राह्मणशतं भोज्यताम्' इतिव-

दर्थत: संख्येयप्राधान्यम् । सहस्रं पुनरस्त्री स्या-

च्छतानां दशके तथा । बहून्यपि' इति केशवः ।

तेषां शोभां तत्कृतां शोभां प्रत्यक्षयन्ति । भगवति महाविरा-

द्रूपे
प्रसिद्धा प्रतिरोमकूपविश्रान्तानेककोटिब्रह्माण्डता अ
त्र
भगवति प्रत्यक्षं दृश्यत इत्यर्थः । अत्र भूषणमौक्तिकैर्भगव-

न्मूर्तिसंलग्नानेककोटिब्रह्माण्डदर्शनमशक्यसंपादनं संपादित -

मित्यशक्यवस्त्वन्तरकरणरूपो विशेषालंकारः । तस्य पिञ्ज-

रितेति तद्गुणेन संकरः । यद्यपि ब्रह्माण्डस्याधः कपालं रजत-

मूर्ध्वकपालं सुवर्णम् ' असदेवेदमग्र आसीत्तत्सदासीत्तत्सम-

भवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशेत तन्निरभिद्यत

ते आण्डकपाले रजतं च सुवर्णं चाभवतां तद्यद्रजतं सेयं

पृथिवी यत्सुवर्णं सा द्यौः' इति श्रुतेः । इह तु केषांचि न्मौक्ति-

कानामधोभागस्तिर्यग्भागो वा सुवर्णसवर्णः । तथापि

'इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः । सर्वगत्वात्प्र.
-
धानस्य तिर्यगूर्ध्वमधः स्थिताः ॥' इति वचनात्केषांचिदू-

र्ध्वाधरीभावयत्यासेऽपि न विरोधः । 'तद्गुणः स्वगुणत्या-

गादन्यदीयगुणग्रह: । पद्मरागायते नासामौक्तिकं तेऽधरत्वि-
C
 

षा
' इति तद्गुणालंकारस्य लक्षणोदाहरणे ॥ ३१ ॥