This page has been fully proofread once and needs a second look.

५२
 
यन्वसति' इत्यत्रेव फलस्य हेतुत्वविवक्षणात्कृतार्थीकरणस्य

फलत्वलाभः ॥ ३० ॥
 

 
शृङ्गी सुवर्णरुचिपिञ्जरितैकभागा-

न्यङ्गेषु देव तव भूषणमौक्तिकानि

प्रत्यक्षयन्ति भवतः प्रतिरोमकूप-

विश्रान्त सान्द्र जगदण्डसहस्रशोभाम् ॥

हे देव, तवानेङ्गेषु शृङ्गीसुवर्णमलंकाररूपेण गृह्यमाणं सुव-

र्णम् । अलंकारसुवर्णं यच्छृङ्गीकनकमित्यदः' इत्यमरकोशः ।

यद्यपि भट्टबाणेन ' वर्षसमूहमिवान्तःस्थितापरिमाणशृविङ्गिहेम-
क्रू

कू
टम्' इति राजकुलं विशेषयता शुङ्गिहेमेति ह्रस्वान्तशृङ्गि-

शब्दः प्रयुक्तः, तथाप्युदाहृते अमरकोशे, 'अलंकारसुवर्
णं
तु शृङ्गीकनकमाशु च' इति वैजयन्त्याम्, 'आशु पाटल-

संज्ञे च व्रीहि भेदे दिवाकरे । अलंकारसुवर्णे च स शुक्रीशृङ्गीकन-

काह्वयः ॥' इति केशवकोशे च दीर्घपाठात् तदनुरोधाद
त्र
शृङ्गीसुवर्णेति दीर्घान्तप्रयोगः । तस्य भासा पिञ्जरितः पीत-

वर्णनां प्रापितः । शुद्धसुवर्णत्वेन पीतिमातिशयख्यापनाम

पीतरक्तवाचिनः पिञ्जरशब्दस्य प्रयोगः । ' पिञ्जरः पीतरक्तः

स्यात्' इत्यमरशेषः । एवंभूतः एकभागो येषां तानि भूषणानां

मौक्तिकानि भवतः प्रतिरोमकूपं विश्रान्तानां सान्द्राणां च