This page has not been fully proofread.

५२
 
यन्वसति' इत्यत्रेव फलस्य हेतुत्वविवक्षणात्कृतार्थीकरणस्य
फलत्वलाभः ॥ ३० ॥
 
शृङ्गी सुवर्णरुचिपिञ्जरितैकभागा-
न्यङ्गेषु देव तव भूषणमौक्तिकानि
प्रत्यक्षयन्ति भवतः प्रतिरोमकूप-
विश्रान्त सान्द्र जगदण्डसहस्रशोभाम् ॥
हे देव, तवानेषु शृङ्गीसुवर्णमलंकाररूपेण गृह्यमाणं सुव-
र्णम् । अलंकारसुवर्ण यच्छृङ्गीकनकमित्यदः' इत्यमरकोशः ।
यद्यपि भट्टबाणेन ' वर्षसमूहमिवान्तःस्थितापरिमाणशृविहेम-
क्रूटम्' इति राजकुलं विशेषयता शुङ्गिहेमेति हस्वान्तशृङ्गि-
शब्दः प्रयुक्तः, तथाप्युदाहृते अमरकोशे, 'अलंकारसुवर्ण
तु शृङ्गीकनकमाशु च' इति वैजयन्त्याम्, 'आशु पाटल-
संज्ञेच व्रीहि भेदे दिवाकरे । अलंकारसुवर्णे च स शुक्रीकन-
काह्वयः ॥' इति केशवकोशे च दीर्घपाठात् तदनुरोधादल
शृङ्गीसुवर्णेति दीर्घान्तप्रयोगः । तस्य भासा पिञ्जरितः पीत-
वर्णनां प्रापितः । शुद्धसुवर्णत्वेन पीतिमातिशयख्यापनाम
पीतरक्तवाचिनः पिञ्जरशब्दस्य प्रयोगः । ' पिञ्जरः पीतरक्तः
स्यात्' इत्यमरशेषः । एवंभूतः एकभागो येषां तानि भूषणानां
मौक्तिकानि भवतः प्रतिरोमकूपं विश्रान्तानां सान्द्राणां च