This page has been fully proofread once and needs a second look.

हे नागगिरिनाथ, सेवारसेन सेवितुमिच्छया आगतानां

सुरादीनामनुबिम्बैः प्रतिबिम्बै: दृश्यं दर्शनीयम्, भूषामणीनां

प्रकरेण दर्शिताः सर्वे वर्णा अरुणिमादयो येन तं त्वां विश्वरूप-

वपुषा समस्तं सेवार्थमागतं जनं कृतार्थयन्तमिव पश्यामि

उत्प्रे क्षे। विश्वरूपविग्रहे ’ पश्यामि देवांस्तव देव देहे' इत्यादिना

देवर्षिप्रभृतीनां दर्शनमुक्तम् । नानावर्णाकृतीनि च ' इति

सर्ववर्णत्वमप्युक्तम् । बृहदारण्यकेऽपि ' तस्य हैतस्य पुरुषस्य

रूपं यथा महारजनं वासो यथा पाण्डाड्वाविकं यथेन्द्रकोपो

यथा ह्यर्चिर्यथा पुण्डरीकम्' इति तस्य सर्ववर्णत्वमुक्तम्

एवं प्रतिबिम्बरूपसकलदेवतादिसत्त्वेन सर्ववर्णसत्त्वेन च

निमित्तेनास्य भगवद्विग्रहस्य सकलजनकृतार्थीकरणार्थदर्शित-

विश्वरूपविग्रहत्वोत्प्रेक्षणात्फलोत्प्रेक्षागर्भः स्वरूपोत्प्रेक्षालंकारः ।

'देवा अप्यस्य रूपस्य नित्यं दर्शनःनकाङ्क्षिणः’ इति पार्थदृष्टस्य

तस्य विश्वरूपविग्रहस्य सर्वदृश्यत्वाभाव उक्तः ।
न तु मां

शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः

पश्य मे योगमैश्वरम् ॥' इति भगवता दिव्यचक्षुषैव तस्य

दृश्यत्वमुक्तम् । तस्यैवात्र भगवता लोकानुग्रहार्थं सकलजन-

दृश्यत्वसंपादनेन पार्थदृष्टपूर्वावस्थातो वैषम्योद्घाटनाद्व्यतिरेका-

लंकारश्चेति तद्गर्भितश्चायं स्वरूपोत्प्रेक्षालंकारः । कृतार्थयन्त-

मित्यत 'लक्षणहेत्वोः क्रियायाः' इति हेतौ शतृप्रत्ययः,
 
अर्ज-
.6