This page has been fully proofread once and needs a second look.

५०
 
परिष्कुर्वन्यन्त्रविशेषस्तोरण: । तदभिप्रायेणोक्तं शब्दरत्नाकरे -

'तोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः' इति । स तु पार्श्व-

द्वये मकरमत्स्याङ्कितो मकरतोरणः । स इह जाम्बूनदमयो

विवक्षितः । तन्मण्डलस्य मध्ये स्फुरन् भासमान: चामीक-

राभरणै: सुवर्णभूषणैः भूषितसर्वगात्रः भूषितसर्वावयवः

भवान् आदित्यविम्बगतम् आ प्रपदात् आ पादाग्रात् सुवर्
णं
हिरण्मयं भवन्तमेव भासा अनुकरोति । ’य एषोऽन्तरा-

दिये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ

प्रणखात्सर्व एव सुवर्णः' इत्युपनिषत्प्रसिद्धादित्यमण्डलसं-

निहितमूर्तिस्त्वमिव वर्तस इत्यर्थः । अत्रोपमानोपमेययोरभे-

देsपि 'गगनं गगनाकारम्' इत्यवेत्रेव नानन्वयः, एकत्रा-

दित्यमण्डलादि अन्यत्र मकरतोरणादीत्युपमानोपमेययोर्बिम्ब-

प्रतिबिम्ब भावापन्नधर्मभेदात् । किं तु ' उपाददे तस्य सहस्र-

रश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलि -

र्
बभौ पतगङ्ग इवोत्तमाङ्गे ॥' इत्यत्रेव धर्मभेदेनोपमानो-

पमेयधर्मकल्पनयोपमालंकारः ॥ २९ ॥

 
सेवारसागतसुरायतुद्यनुबिम्बदृश्यं

भूषामणिप्रकरदर्शित सर्ववर्णम् ।

त्वां विश्वरूपवपुषेव जनं समस्तं

पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥