This page has not been fully proofread.

५०
 
परिष्कुर्वन्यन्त्रविशेषस्तोरण: । तदभिप्रायेणोक्तं शब्दरत्नाकरे -
'तोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः' इति । स तु पार्श्व-
द्वये मकरमत्स्याङ्कितो मकरतोरणः । स इह जाम्बूनदमयो
विवक्षितः । तन्मण्डलस्य मध्ये स्फुरन् भासमान: चामीक-
राभरणै: सुवर्णभूषणैः भूषितसर्वगात्रः भूषितसर्वावयवः
भवान् आदित्यविम्बगतम् आ प्रपदात् आ पादाग्रात् सुवर्ण
हिरण्मयं भवन्तमेव भासा अनुकरोति • य एषोऽन्तरा-
दिये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ
प्रणखात्सर्व एव सुवर्णः' इत्युपनिषत्प्रसिद्धादित्यमण्डलसं-
निहितमूर्तिस्त्वमिव वर्तस इत्यर्थः । अत्रोपमानोपमेययोरभे-
देsपि 'गगनं गगनाकारम्' इत्यवेव नानन्वयः, एकत्रा-
दित्यमण्डलादि अन्यत्र मकरतोरणादीत्युपमानोपमेययोर्बिम्ब-
प्रतिबिम्ब भावापन्नधर्मभेदात् । किं तु ' उपाददे तस्य सहस्र-
रश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलि -
बभौ पतगङ्ग इवोत्तमाङ्गे ॥' इत्यत्रेव धर्मभेदेनोपमानो-
पमेयधर्मकल्पनयोपमालंकारः ॥ २९ ॥
सेवारसागतसुरायतुबिम्बदृश्यं
भूषामणिप्रकरदर्शित सर्ववर्णम् ।
त्वां विश्वरूपवपुषेव जनं समस्तं
पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥