This page has been fully proofread once and needs a second look.

भ्यां निदर्शनाम् । त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥'
इति तल्लक्षणोदाहरणे ॥ २७ ॥
 
सर्वानिशाघिमहद्युतिभूषितस्य
विश्वैकनायक विभूषणधारणं ते ।
आबद्धमौहृदमपारसुखाम्बुराशे
र्वीक्षे तवैव विषयादिकुतूहलेन ॥ २८ ॥
हे विश्वैकनायक विश्वस्यैकाधिपते, सर्वातिशायिन्या सह-
जया स्वभावसिद्धया द्युत्या प्रभया भूषितस्य ते विभूषणधा-
रणम् अपारसुखाम्बुराशेः नित्यनिरतिशयानन्दमहार्णवस्य त-
वैव विषयादिकुतूहलेन तुच्छगोपकन्यारमणादिकौतुकेन आ-
बद्धसौहृदं कृतसौहार्दं समानं वीक्षे पश्यामि । अत्रोपमालं-
कार:, सौहृदादिशब्दानां सादृश्यपर्यवसायित्वस्य दण्ड्यलंका-
रादिषूक्तत्वात् । सहजकान्त्या यावती शोभा तावती विभूष-
णभाभिर्नास्तीति व्यतिरेकालंकार उपमालंकारेण व्यज्यते ॥
 
मध्ये स्फुरमन्करतोरणमण्डलस्य
चामीकराभरणभूषितसर्वगात्रः ।
आदित्यबिम्बगतमा प्रपदात्सुवर्णं
भासा भवाननुकरोति भवन्तमेव ॥
अर्चाविग्रहाणां शोभार्थं निहितः पार्श्वद्वयमुपरिप्रदेशं च
V. 4