This page has been fully proofread once and needs a second look.

४५
 
भ्यां निदर्शनाम् । त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥'

इति तल्लक्षणोदाहरणे ॥ २७ ॥
 

 
सर्वानिशाघि महद्युतिभूषितस्य

विश्वैकनायक विभूषणधारणं ते ।

आबद्ध मौहृदमपारसुखाम्बुराशे

र्वी
क्षे तवैव विषयादिकुतूहलेन ॥ २८ ॥

हे विश्वैकनायक विश्वस्यैकाधिपते, सर्वातिशायिन्या सह-

जया स्वभावसिद्धया गुलाद्युत्या प्रभया भूषितस्य ते विभूषणधा-

रणम् अपारसुखाम्बुराशेः नित्यनिरतिशयान न्दमहार्णवस्य त-

वैव विषयादिकुतूहलेन तुच्छगोपकन्यारमणादिकौतुकेन आ-

बद्ध सौहृदं कृतसौहार्दं समानं वीक्षे पश्यामि । अत्रोपमालं-

कार:, सौहृदादिशब्दानां सादृश्यपर्यवसायित्वस्य दण्ड्यलंका-

रादिषूक्तत्वात् । सहजकान्त्या यावती शोभा तावती विभूष-

भाभिर्नास्तीति व्यतिरेकालंकार उपमालंकारेण व्यज्यते ॥

 
मध्ये स्फुरमन्करतोरणमण्डलस्य

चामीकराभरणभूषित सर्वगात्रः

आदित्यबिम्बगतमा प्रपदात्सुवर्
 
>
 
णं
भासा भवाननुकरोति भवन्तमेव ॥

अर्चाविग्रहाणां शोभार्थं निहितः पार्श्वद्वयमुपरिप्रदेशं च
 

V. 4