This page has not been fully proofread.

४५
 
भ्यां निदर्शनाम् । त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥'
इति तल्लक्षणोदाहरणे ॥ २७ ॥
 
सर्वानिशाघि महजतिभूषितस्य
विश्वकनायक विभूषणधारणं ते ।
आबद्ध मौहृदमपारसुखाम्बुराशे
वक्ष तवैव विषयादिकुतूहलेन ॥ २८ ॥
हे विश्वैकनायक विश्वस्यैकाधिपते, सर्वातिशायिन्या सह-
जया स्वभावसिद्धया गुला प्रभया भूषितस्य ते विभूषणधा-
रणम् अपारसुखाम्बुराशेः नित्यनिरतिशयान दमहार्णवस्य त-
वैव विषयादिकुतूहलेन तुच्छगोपकन्यारमणादिकौतुकेन आ-
बद्ध सौहदं कृतसौहार्द समानं वीक्षे पश्यामि । अत्रोपमालं-
कार:, सौहृदादिशब्दानां सादृश्यपर्यवसायित्वस्य दण्ड्यलंका-
रादिषूक्तत्वात् । सहजकान्त्या यावती शोभा तावती विभूष-
भाभिर्नास्तीति व्यतिरेकालंकार उपमालंकारेण व्यज्यते ॥
मध्ये स्फुरमन्करतोरणमण्डलस्य
चामीकराभरणभूषित सर्वगात्रः
आदित्यबिम्बगतमा प्रपदात्सुवर्ण
 
>
 
भासा भवाननुकरोति भवन्तमेव ॥
अर्चाविग्रहाणां शोभार्थं निहितः पार्श्वद्वयमुपरिप्रदेशं च
 
V. 4