This page has been fully proofread once and needs a second look.

४८
 
नम्- ' मथितामृतफेनाभं
 
शङ्खचक्रगदाधरम् । सहस्रशुभना-

मानमादिदेवमजं विभुम् ॥' इति । हरिवंशेऽपि घण्टाकर्ण-

ध्यानविषयभगवद्रूपप्रतिपादकं वचनम् - ' ध्यायन्विष्णुं जग-

द्योनिं विष्णुं पीताम्बरं शिवम् । कुन्दाममादिपुरुषमेकाकार-

मनामयम् ॥' इति । एवं शशिवर्णोऽपि भगवान् कृपाम्बुभरतः

कृपैवाम्बु शीतलत्वाद्भक्तजनतृष्णानिवर्तकत्वाञ्च् तस्य भरतः

भरणातिशयेन गरिम्णा वा । भरस्त्वतिशये भारे भरणे

गरिमण्यपि' इति केशवः । ऐन्द्रनीलीमिन्द्रनीलसंबन्धि
नीं
त्विषं कान्तिं धत्ते । स्वतः शुभ्रोऽपि खल्वब्दो मेघ: साम्बु-

रम्बुभरितः सन्नसितो दृश्यते । अत्र भगवतः स्वतो मेघवर्ण-

मूर्तिसहस्रसद्भावेऽपि कविप्रौढोक्तिकल्पितेयं सरणिः । अत्र

कृपाम्बुभरत इति रूपकोत्थापितः प्रतिवस्तूपमालंकारः । प्रतिव-

स्तु प्रतिवाक्यार्थम् उपमानवाक्ये उपमेयवाक्ये च उपमा समा-

नधर्मोऽस्यामस्तीति प्रतिवस्तूपमा । इह नैर्मल्यगुणरूपो भगव-

द्वलाहकयोः समानधर्मो वाक्यार्थद्वयेऽपि पृथङ्निर्दिष्ट एव ।

सा च प्रतिवस्तूपमा कृपाम्बुरूपरूपकोत्थापितेति संकरः ।

ऐन्द्रनीलीं त्विषं धत्त इत्यत्रासंभवद्वस्तुसंबन्धनिबन्धनो निद-

र्शनालंकारः । इन्द्रनीलसंबान्धनी हि कान्तिर्भगवत्यसंभवन्ती

तत्संदृशकान्तिमत्तामवगमयति । अनेन निदर्शनालंकारेण

प्रतिवस्तूपमालंकारस्य संसृष्टि: । पदार्थवृत्तिमप्येके वदन्त्य -
 
;