This page has not been fully proofread.

४८
 
नम्- ' मथितामृतफेनाभं
 
शङ्खचक्रगदाधरम् । सहस्रशुभना-
मानमादिदेवमजं विभुम् ॥' इति । हरिवंशेऽपि घण्टाकर्ण-
ध्यानविषयभगवद्रूपप्रतिपादकं वचनम् - ' ध्यायन्विष्णुं जग-
द्योनिं विष्णुं पीताम्बरं शिवम् । कुन्दाममादिपुरुषमेकाकार-
मनामयम् ॥' इति । एवं शशिवर्णोऽपि भगवान् कृपाम्बुभरतः
कृपैवाम्बु शीतलत्वाद्भक्तजनतृष्णानिवर्तकत्वाञ्च तस्य भरतः
भरणातिशयेन गरिम्णा वा । भरस्त्वतिशये भारे भरणे
गरिमण्यपि' इति केशवः । ऐन्द्रनीलीमिन्द्रनीलसंबन्धिन
त्विषं कान्तिं धत्ते । स्वतः शुभ्रोऽपि खल्वब्दो मेघ: साम्बु-
रम्बुभरितः सन्नसितो दृश्यते । अव भगवतः स्वतो मेघवर्ण-
मूर्तिसहस्रसद्भावेऽपि कविप्रौढोक्तिकल्पितेयं सरणिः । अत्र
कृपाम्बुभरत इति रूपकोत्थापितः प्रतिवस्तूपमालंकारः । प्रतिव-
स्तु प्रतिवाक्यार्थम् उपमानवाक्ये उपमेयवाक्ये च उपमा समा-
नधर्मोऽस्यामस्तीति प्रतिवस्तूपमा । इह नैर्मल्यगुणरूपो भगव-
द्वलाहकयोः समानधर्मो वाक्यार्थद्वयेऽपि पृथनिर्दिष्ट एव ।
सा च प्रतिवस्तूपमा कृपाम्बुरूपरूपकोत्थापितेति संकरः ।
ऐन्द्रनीलीं त्विषं धत्त इत्यत्रासंभवद्वस्तुसंबन्धनिबन्धनो निद-
र्शनालंकारः । इन्द्रनीलसंबान्धनी हि कान्तिर्भगवत्यसंभवन्ती
तत्संदृशकान्तिमत्तामवगमयति । अनेन निदर्शनालंकारेण
प्रतिवस्तूपमालंकारस्य संसृष्टि: । पदार्थवृत्तिमप्येके वदन्त्य -
 
;