This page has been fully proofread once and needs a second look.

हात् अजस्रं प्रवहन्ती यमुना किम्विति स्वरूपोत्प्रेक्षा । सा
च वाग्गुम्भ एव सरस्वत्या नद्या: प्रवाह इति तदुभयाभेदा-
ध्यवसायरूपातिशयोक्त्या उत्थापितेति तयोः संकरः । वदनं
पद्ममिवेत्युपमया तु तयोः संसृष्टिः ॥ २५ ॥
 
आपूरितत्रिभुवनोदरमंशुजालं
मन्ये महेन्द्रमणिबृन्दमनोहरं ते ।
त्वद्रागदीपितहृदां त्वरितं वधूनां
प्राप्ते सरित्महचरं प्रलयेऽभिवृद्धम् ॥
आपूरितं त्रिभुवनस्योदरमन्तरालं येन तत्तथा महेन्द्रमाणि-
वृन्दमिव इन्द्रनीलरत्नसमूहमिव मनोहरं तवांशुजालं देहप्र-
भानिकरं त्वद्रागेण त्वद्विषयानुरागेण दीपितहृदां वह्निनेवास-
ह्येन प्रदीपितहृदयानां वधूनां तरुणीनां प्रलये 'स्तम्भः स्वेदो-
ऽथ रोमाञ्चः स्वरसादश्च वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ
सात्त्विका मताः ॥' इत्युक्तानां सात्त्विकभावानां मध्ये
'प्रलयो नष्टचेष्टता' इत्युक्तलक्षणे प्रलयाख्ये विकारे प्राप्ते
सति त्वरितमभिवृद्धं सरित्सहचरं समुद्रं मन्ये । प्रलये
कल्पान्ते समुद्रस्य ध्रुवलोकपर्यन्तत्रैलोक्यव्यापिन्यभिवृद्धिर्भ-
वत्येवेति भावः । अत्र प्रलयशब्दश्लेषोत्थापितातिशयोक्त्या