2023-03-22 23:24:03 by suhasm
This page has been fully proofread once and needs a second look.
सागरः तत्प्रभवायां लक्ष्म्यां तव विशेषाद्विशिष्य अधिकं
प्रणयं तर्कयामि । तत्र हेतुः - तां लावण्यसागरभुवं लक्ष्मीं
निखिलेन कृत्स्नावयवयुक्तेन वपुषा बिभर्षि । अन्यां दुग्धा-
म्बुधिदुहितरं तु लक्ष्मीं केवलं वक्षसैव बिभर्षीति यत् । अत्र
लावण्यस्य सागरत्वेन रूपणात्तत्प्रभवायां शोभायां तत्क-
न्यकात्वारोपो गम्यत इत्येकदेशविवर्तिरूपकालंकारः । न च
लावण्यसागरेत्यत्र लावण्यमेव सागर इति रूपकसमासं वि-
हाय लावण्यं सागरमिवेत्युपमितसमासाश्रयणे समासोक्तिरपि
संभवतीति वाच्यम् , दुग्धाम्बुराशिप्रतिकोटितासिद्ध्यर्थं सा-
गरप्राधान्याय मयूरव्यंसकादिसमासस्याश्रयणीयत्वात् ॥ २४ ॥
सारस्वतं वदनपद्मभुवं प्रवाहं
त्रैस्त्रोतसं च तव पादभुवं निरीक्ष्य ।
सर्वप्रतीकनिकरात्प्रवहन्त्यजस्त्ररं
मीर्ष्यावतीश यमुना किमु कायकान्तिः ॥
हे ईश ईश्वर, तव कायकान्तिः सारस्वतं सरस्वतीसंब-
न्धिनं प्रवाहं तव वदनपद्मभुवं त्रैस्रोतसं गङ्गासंबन्धिनं
प्रवाहं तव पादभुवं च निरीक्ष्य ईर्ष्यावती अक्षमावती तयो-
र्भवदङ्गप्रभवत्वकृतमुत्कर्षं सोढुमशक्नुवती ताभ्यां स्वस्या
अत्युत्कर्षार्थं तव सर्वप्रतीकनिकरात् सर्वेषामवयवानां समू-
प्रणयं तर्कयामि । तत्र हेतुः - तां लावण्यसागरभुवं लक्ष्मीं
निखिलेन कृत्स्नावयवयुक्तेन वपुषा बिभर्षि । अन्यां दुग्धा-
म्बुधिदुहितरं तु लक्ष्मीं केवलं वक्षसैव बिभर्षीति यत् । अत्र
लावण्यस्य सागरत्वेन रूपणात्तत्प्रभवायां शोभायां तत्क-
न्यकात्वारोपो गम्यत इत्येकदेशविवर्तिरूपकालंकारः । न च
लावण्यसागरेत्यत्र लावण्यमेव सागर इति रूपकसमासं वि-
हाय लावण्यं सागरमिवेत्युपमितसमासाश्रयणे समासोक्तिरपि
संभवतीति वाच्यम् , दुग्धाम्बुराशिप्रतिकोटितासिद्ध्यर्थं सा-
गरप्राधान्याय मयूरव्यंसकादिसमासस्याश्रयणीयत्वात् ॥ २४ ॥
सारस्वतं वदनपद्मभुवं प्रवाहं
त्रैस्
सर्वप्रतीकनिकरात्प्रवहन्त्यजस्