This page has been fully proofread once and needs a second look.

४५
 
सागरः तत्प्रभवायां लक्ष्म्यां तव विशेषाद्विशिष्य अधिकं

प्रणयं तर्कयामि । तत् हेतुः - तां लावण्यसागरभुवं लक्ष्मीं

निखिलेन कृत्स्नावयवयुक्तेन वपुषा विबिभर्षि । अन्यां दुग्धा-

म्बुधिदुहितरं तु लक्ष्मीमीं केवलं वक्षसैव बिभर्षीति यत् । अत्र

लावण्यस्य सागरत्वेन रूपणात्तत्प्रभवायां शोभायां तत्क-

न्यकात्वारोपो गम्यत इत्येकदेशविवर्तिरूपकालंकारः । न च

लावण्यसागरेत्यत्र लावण्यमेव सागर इति रूपकसमासं वि-

हाय लावण्यं सागरमिवेत्युपमित समासाश्रयणे समासोक्तिरपि

संभवतीति वाच्यम् , दुग्धाम्बु राशिप्रतिकोटितासिद्ध्यर्थं सा-

गरप्राधान्याय मयूरव्यंसकादिसमासस्याश्रयणीयत्वात् ॥ २४ ॥

 
सारस्वतं वदन पद्मभुवं प्रवाहं
त्रैस्त्रोतसं च तव पादभुवं निरीक्ष्य ।
सर्वप्रतीकनिकरात्प्रवहन्त्यजत्र-
मीयवतीश यमुना किमु कायकान्तिः ॥
 
.
 
हे ईश ईश्वर, तव कायकान्तिः सारस्वतं सरस्वतीसंब-
न्धिनं प्रवाहं तव
वदनपद्मभुवं प्रवाहं
त्रैस्त्रोतसं च तव पादभुवं निरीक्ष्य ।
सर्वप्रतीकनिकरात्प्रवहन्त्यजस्त्र
मीर्ष्यावतीश यमुना किमु कायकान्तिः ॥
हे ईश ईश्वर, तव कायकान्तिः सारस्वतं सरस्वतीसंब-
न्धिनं प्रवाहं तव वदनपद्मभुवं
त्रैस्रोतसं गङ्गासंबन्धिनं

प्रवाहं तव पादभुवं च निरीक्ष्य ईर्ष्यावती अक्षमावती तयो-

र्भवदङ्गप्रभवत्वकृतमुत्कर्षं सोढुमशक्नुवती ताभ्यां स्वस्या

अत्युत्कर्षार्थं तव सर्वप्रतीकनिकरात् सर्वेषामवयवानां समू-