2023-02-23 16:29:19 by ambuda-bot
This page has not been fully proofread.
४५
सागरः तत्प्रभवायां लक्ष्म्यां तव विशेषाद्विशिष्य अधिकं
प्रणयं तर्कयामि । तत्व हेतुः - तां लावण्यसागरभुवं लक्ष्मीं
निखिलेन कृत्स्नावयवयुक्तेन वपुषा विभर्षि । अन्य दुग्धा-
म्बुधिदुहितरं तु लक्ष्मी केवलं वक्षसैव बिभर्षीति यत् । अत्र
लावण्यस्य सागरत्वेन रूपणात्तत्प्रभवायां शोभायां तत्क-
न्यकात्वारोपो गम्यत इत्येकदेशविवर्तिरूपकालंकारः । न च
लावण्यसागरेत्यत्र लावण्यमेव सागर इति रूपकसमासं वि-
हाय लावण्यं सागरमिवेत्युपमित समासाश्रयणे समासोक्तिरपि
संभवतीति वाच्यम दुग्धाम्बु राशिप्रतिकोटितासिद्धयर्थं सा-
गरप्राधान्याय मयूरव्यंसकादिसमासस्याश्रयणीयत्वात् ॥ २४ ॥
सारस्वतं वदन पद्मभुवं प्रवाहं
त्रैस्त्रोतसं च तव पादभुवं निरीक्ष्य ।
सर्वप्रतीकनिकरात्प्रवहन्त्यजत्र-
मीयवतीश यमुना किमु कायकान्तिः ॥
.
हे ईश ईश्वर, तव कायकान्तिः सारस्वतं सरस्वतीसंब-
न्धिनं प्रवाहं तव वदनपद्मभुवं त्रैस्रोतसं गङ्गासंबन्धिनं
प्रवाहं तव पादभुवं च निरीक्ष्य ईर्ष्यावती अक्षमावती तयो-
र्भवदङ्गप्रभवत्वकृतमुत्कर्षं सोढुमशक्नुवती ताभ्यां स्वस्या
अत्युत्कर्षार्थं तव सर्वप्रतीकनिकरात् सर्वेषामवयवानां समू-