This page has not been fully proofread.

४४
 
तद्ध्यानप्रवृत्तानि भवन्ति इति यत् । कुम्भकेन विशन्तीत्युक्ते
घटरूपेण साधनेन प्रविशन्तीत्यपि प्रतीयते । तदनूद्य फलो-
त्प्रेक्षार्थमुत्तरार्धम् । प्रत्यङ्गं तव सर्वेष्वप्यवयवेषु मूर्छन्
प्रसरन् अतिवेल: मर्यादामतिक्रम्य वर्तमान: महाप्रवाहो
यस्य तथाभूतस्य लावण्यसिन्धोस्तरणाय तदित्यवैमीत्युत्प्रेक्षा ।
' नाभचिक्रस्थितं ध्यायेत्पूरकेण पितामहम् । हृदयाब्जगतं
ध्यायेत्कुम्भकेन जनार्दनम् । ललाटस्थं शिवं ध्यायेद्रेचकेन
महेश्वरम् ॥' इति हि स्मृतिः । तदिह भगवद्धथानसमये
पदकमलादि कुन्तलपर्यन्तेष्वयवेषु क्रमेण ध्यातव्येषु तत्तदङ्ग-
प्रवहल्लावण्यतटिनीतरणं कुम्भकावलम्बनस्य फलत्वनोत्प्रेक्षि-
तम् । सा चोत्प्रेक्षा कुम्भकशब्दश्लेषेण लावण्यसिन्ध्विति
रूपकेण चोत्थापितेति संकरः ॥ २३ ॥
लावण्यसागरभुवि प्रणयं विशेषा.
दुग्धाम्बुराशिदुहितुस्तव तर्कयामि ।
यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मी-
मन्यां तु केवलमधोक्षज वक्षसैव ॥ २४ ॥
हे अधोक्षज । अधः कृतान्यक्षाणि यैस्ते अधोक्षा जिते-
न्द्रिया: तेषु जायते अभिव्यज्यत इत्यधोक्षजो भगवान् ।
दुग्धाम्बुराशिदुहितुः लक्ष्म्याः लावण्यसागरभुवि लावण्यमेव