This page has been fully proofread once and needs a second look.

झषैर्विमुक्ते– ' इति । तथैव स्त्रीणां नयनौघः शुभगोचरो
लब्ध इति हर्षात्संप्रस्थितः । तदनन्तरमेव क्वचिन्नदीप्रवाहे
निपत्य मूर्छितो जात इति । ' मोहः पुनः स्यादज्ञाने मूर्छायां
क्रोध एव च ' इति केशवः । अस्मिन्नर्थे अर्थान्तरं न्यस्यति-
दैवचिन्ताः दैवं शुभाशुभं कर्म तस्य चिन्ताः तत्सूचकग्रहचा-
रादिविचारा दैवज्ञैः कृताः प्रायः फलन्ति क्वचिद्विफलन्ति
च । इह प्रकृतार्थे शुभ्रांशुवक्त्रेति नयनाम्बुजेति च रूपकयोः
प्रस्तुतमोहाभेदेनाध्यवसिते निमीलने उपकारकत्वात्तस्यताभ्यां
संकरः । अप्रकृतार्थे तु त्वद्भाःसरितीति रूपकस्य विषयसौ-
न्दर्याकृष्टनयनसंबन्धे निपतनाध्यवसायरूपातिशयोक्तेर्मोहगो-
चरशब्दश्लेषमूलातिशयोक्त्योश्चार्थान्तरन्यासोपकारकत्वात्तस्य
तैः संकरः ॥ २२ ॥
 
यत्प्राणसंयमजुषां यमिनां मनांसि
मूर्तिं विशन्ति तव माधव कुम्भकेन ।
प्रत्यङ्गमूर्छदतिवेलमहाप्रवाह-
लावण्यसिन्धुतरणाय तदित्यवैमि ॥
हे माधव लक्ष्मीपते. प्राणसंयमजुषां प्राणायामं सेवमा-
नानां यमिनां योगिनां मनांसि तव मूर्तिं कुम्भकेन पूरक-
कुम्भकरेचकानां मध्ये कुम्भकाख्यावस्थाविशेषेण विशन्ति