This page has been fully proofread once and needs a second look.

४३
 
झषैर्विमुक्ते– ' इति । तथैव स्त्रीणां नयनौघः शुभगोचरो

लब्ध इति हर्षात्संप्रस्थितः । तदनन्तरमेव क्वचिन्नदीप्रवाहे

निपत्य मूर्छितो जात इति । ' मोहः पुनः स्यादज्ञाने मूर्छायां

क्रोध एव च ' इति केशवः । अस्मिन्नर्थे अर्थान्तरं न्यस्यति-

दैवचिन्ताः दैवं शुभाशुभं कर्म तस्य चिन्ताः तत्सूचकग्रहचा-

रादिविचारा दैवज्ञैः कृताः प्रायः फलन्ति क्वचिद्विफलन्ति

च । इह प्रकृतार्थे शुभ्रांशुवक्त्रेति नयनाम्बुजेति च रूपकयोः

प्रस्तुत मोहाभेदेनाध्यवसिते निमीलने उपकारकत्वात्तस्यताभ्यां

संकरः । अप्रकृतार्थे तु त्वाः वद्भाःसरितीति रूपकस्य विषयसौ-

न्दर्याकृष्टनयनसंबन्धे निपतनाध्यवसायरूपातिशयोक्तेर्मोहगो-

रशब्दश्लेषमूलातिशयोक्त्योश्चार्थान्तरन्यासोपकारकत्वात्तस्य
 

तैः संकरः ॥ २२ ॥
 

 
यत्प्राणसंयमजुषां यमिनां मनांसि

मूर्तितिं विशन्ति तव माधव कुम्भकेन

प्रत्यङ्गमूछेर्छदतिवेल महाप्रवाह
-
लावण्यसिन्धुतरणाय तदित्यवैमि ॥
 

हे माधव लक्ष्मीपते. प्राणसंयमजुषां प्राणायामं सेवमा-
भा

ना
नां यमिनां योगिनां मनांसि तव मूर्तितिं कुम्भकेन पूरक-

कुम्भकरेचकानां मध्ये कुम्भकाख्यावस्थाविशेषेण विशन्ति