This page has been fully proofread once and needs a second look.

४२
 
.
 
पूर्ववाक्यार्थे हेतुत्वेनान्वयेऽपि न काव्यलिङ्गमलंकारः । यत्र

हेतुत्वमार्थं तत्र काव्यलिङ्गम्, यत्र तच्छाब्दं तत्र न काव्य-

लिङ्गम् ' नागेन्द्रहस्तास्त्वाचि कर्कशत्वात्' इत्यादाविति खल्वा-

लंकारिकमर्यादा ॥ २१ ॥
 

 
शुभ्रांशुवक्त्र शुभगोचरलाभतोषा-

त्संपस्थितो मृगदृशां नयनाम्बुजौघः ।

त्वद्भाः सरित्यथ निपत्य बिभर्ति मोहं

प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥

हे शुभ्रांशुवक्त्र चन्द्रमुख, शुभगोचरलाभतोषात् अति-

मनोहरवियलाभसंतोपाषात् संप्रस्थितः संभूय युगपत्प्रस्थितः

मृगदृशां नयनाम्बुजौघः नयनान्येवाम्बुजानि तेषामोघः

समूहः । ' ओघो बृन्देऽम्भसां रये' इत्यमरः । अथ प्रस्था-

नानन्तरमेव त्वद्भाःसरिति तव लावण्यकान्तिरेव सरित्

तस्यां निपत्य मोहं वैचित्त्यमनुरागातिशयप्रयुक्तं बिभर्ति

दधाति । शुभ्रांशुर्वक्त्रं यस्येति व्युत्पत्त्या चन्द्ररूपस्य भगव-

न्मुखस्य प्रभानिकरे पतितानामम्बुजानां निर्मामीलनरूपं वैचित्त्यं

युक्तमिति भावः । इहार्थान्तरमपि प्रतीयते । ग्रहाणां स्थान -

विशेषस्थितिप्रयुक्तमानुकूल्यं प्रातिकूल्यं च गोचर इति दैव-

ज्ञानां व्यवहारः । ते च शुभगोचरेषु भानौ कुलीरालि-
6